________________
____ धात्वर्थनिर्णयः।
दर्पणः रणाभावादेव तदनुत्पादात्। न च क्रियान्तराकाङ्कानुत्थापकतावच्छेदकधर्मरूपसाध्यत्वेन धात्वर्थोपस्थितौ 'कृष्णं नमेञ्चेत् सुखं यायात्' इत्यादावाकाङ्क्षाभावेन क्रियान्तरान्वयो न स्यादिति वाच्यम् । तत्रापि चेत्पदसमवधानेनाकामोत्थापनात्। हिरुगादीनां क्रियाप्राधान्यव्यवहारस्तु तदर्थस्य क्रियामात्रविशेषणत्वात् । अत एव न हिरू गाद्यर्थे कारकाणामन्वयः। तेषां क्रियान्तरसाकाङ्कत्वादिति।
वस्तुतस्तु सिद्धत्वज्ञाने साध्याकासावत् पच्याद्यर्थे साध्यतयावगते 'किमस्य साधनम्' इत्याकाङ्क्षोदयेन साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम् । अत एव 'एतदेवोपादाय' इत्यग्रिमग्रन्थसङ्गतिः, अन्यथा पचति भवतीत्यादौ पूर्वोक्तरूपाभावेन तदसङ्गतिः स्पष्टैव। . उक्तञ्च हरिणा-"प्रयोगार्हेषु सिद्धः सन् मन्तव्योऽर्थो विशेषणैः ।
प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते" ॥ इति ॥ ___ 'साधर्म हि क्रियां निवर्तयति' इति “सुटकात्" (पा० सू० ६।१११२५ ) इति सूत्रस्थभाष्यमप्येतत्कल्पेऽनुगुणमित्यवधेयम् ।। ___ केचित्तु-पचतीत्यनुगतव्यवहारादस्ति पचित्वादिकं जातिः । तथा च क्रमिकानेकव्यक्तिवृत्तिजातिरेव क्रिया। साध्यत्वं च तस्या व्यक्तिद्वारकमेव । स्फोटवदस्याः क्रमवद्भिः क्षणैरभिव्यक्तिः।
परीक्षा मानम् । एवं च यद्धर्मप्रकारकज्ञानात् क्रियान्तराकाङ्का भवति, स धर्मो ज्ञाननिष्ठा या क्रियान्तराकाङ्कोत्थापकता तस्यां प्रकारतासम्बन्धेनावच्छेदकस्तत् सिद्धत्वम् । साध्यत्वं तु क्रियान्तराकाङ्कोत्थापकत्वाभावावच्छेदको धर्मः। पचतीत्यादौ तादृशधर्मप्रकारकज्ञानाभावान्न क्रियान्तराकाङ्क्षा, कृष्णं नमेच्चेत्सुखं यायादित्यादौ तु चेत्पदसमभिव्याहारः क्रियान्तरान्वयप्रयोजकः । साध्यत्वेन क्रियाप्रतीतिस्तु धातुभ्य एव । नचैवं हिरुगादीनां क्रियाप्रधानत्वव्यवहारानुपपत्तिरिति वाच्यम् ? तेषां क्रियामात्रविशेषणतया तथाव्यवहारात् । वस्तुतस्तु साध्यस्यैव साधनसाकाङ्कत्वमिति साधनाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्वमेव तत् । अत एव पचति भवतीत्यत्र न साध्यत्वानुपपत्तिः। ___ अत एव(१) “सुट् कात्पूर्व” इति सूत्रे भाष्यकृतोक्तम्-“साधनं(२) हि क्रियां निवर्त्तयति, तामुपसर्गो विशिनष्टि" इति।।
अन्ये तु-तत्र धातुवाच्या सा जातिरेव क्रियापदेनोच्यतेः सा जातिः पचित्वादिरूपानुगतव्यवहारात्। सिध्यतीति तस्याश्च व्यक्तिद्वारा साध्यत्वं क्रमिकानेकव्यापारे वर्तमाना साऽनेकव्यक्तिभिरेवाभिव्यज्यते । तदुक्तं हरिणा
जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।
असाध्यव्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥१॥ इति स्वतो नित्यत्वादसाध्येत्युक्तमित्याहुः। (१) अत एव इत्यारभ्य 'प्रयोगं कुर्यात्' इत्येतावत्पाठः पुस्तकान्तरे उपलब्धः ।
(२) साधनम्-तद्वोधकप्रत्ययः, क्रियां निवर्तयति-साध्यत्ववैशिष्ट्येन बोधयति । अतस्तत्प्रयुक्तकार्य पूर्वमिति बृद्धाः।