________________
१० .
दर्पणपरीक्षासहिते भूषणसारेउक्तश्च वाक्यपदीये
यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ इति । न च साध्यत्वेनाऽभिधाने मानाभावः। पचति, पाकः, करोति, कृतिः, इत्यादौ धात्वर्थाऽवगमाविशेषेऽपि क्रियान्तराऽऽकासाऽनाकासयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराऽकासानुत्थापकता
दर्पणः च्यता नानुपपन्नेति भावः ॥ उक्तार्थस्य स्वोत्प्रेक्षितत्वं निरस्यति-*उक्तञ्चेति । *यावदिति । सर्वमित्यर्थः । सर्वपदार्थमेव विवृणोति-*सिद्धमित्यादिना*। सिद्धम्विद्यमानध्वंसप्रतियोगि 'अपाक्षीत्' इत्यादौ । असिद्धम्-भूतभिन्नं वर्तमान तादृशप्रागभावप्रतियोगि च, 'पचति' 'पक्ष्यति' इत्यादौ । *साध्यत्वेन*-वक्ष्यमाणस्वरूपेण । *अभिधीयते । तत्प्रकारकप्रतीतिविषय इत्यर्थः । क्वचिद्विवक्ष्यते इति पाठः । एतेन क्रियाशब्दस्य रूढिः प्रदर्शिता। यौगिकत्वमप्याह-*आश्रितेति । आश्रितं क्रमरूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यध:श्रयणपर्यन्तानां क्रमेणोत्पत्तेःक्रियापदेन सा उच्यते । यत्र च न क्रमिकावयवको व्यापारस्तत्र रूढिरेवादरणीया, पौर्वापर्यारोपो वा । फलस्यापि स्वजनकव्यापारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव तन्मात्रवाचकस्य धातुत्वसिद्धिरिति भावः । *पाक इति। यद्यपि साध्यत्वेनोपस्थितिरप्यत्र, कथमन्यथा स्तोकं पाक इत्यादौ स्तोकादीनां कर्मता, तथापि तत्र धातूपस्थाप्यभावस्य गुणतया प्रधानीभूतपशुपस्थाप्यस्य तस्य सिद्धतैवेत्याशयः । पर्यवसितार्थमाह-*तथा चेति । क्रियान्तरेति । अयमाशयः-यद्धर्मवत्ताज्ञानात् क्रियान्तराकासोदयस्तादृशज्ञाने प्रकारतयावच्छेदकं यत्तत्सिद्धत्वम् । तद्भिन्नत्वं ज्ञाननिष्ठतादृशाऽऽकाजोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् । साध्यत्वज्ञानस्य तु नाकाकाप्रतिबन्धकत्वम् । क्लहप्तका
परीक्षा णमाह-*उक्तञ्चेति। कारिकायां सिद्धमित्यस्य निष्पन्नमित्यर्थः । इदं चापाक्षीदित्यायभिप्रायेण । असिद्धमनिष्पन्नमिदं पचति पक्ष्यतीत्याद्यभिप्रायेण । इदं विशेष्यबोधकम् । एवं च सिद्धमसिद्धं वा यावत्साध्यत्वेनाभिधीयते । आश्रितेति योगप्रदर्शनम् , क्रियतेऽवयवानां क्रमेणोत्पत्या सा क्रिया। अत एवाश्रितक्रमरूपा आश्रितं क्रमरूपं यस्याः यथा पचधात्वर्थव्यापारावयवानामधिश्रयणाद्यधःश्रयणपर्य्यन्तानां क्रमेणोत्पत्तेस्तादृशावयवसमूहः क्रिया पचादिनोच्यते। तथाऽन्यत्रापि बोध्यम् । यत्र तु नावयवानां क्रमस्तत्रारोपो रूढिर्वा स्वीकार्यो। *पाक इति* । अत्र प्रकृत्यर्थस्य साध्यत्वेनैव प्रतीतिः। अत एव स्तोकं पाक इत्यत्र स्तोकपदात्कर्मत्वार्थकद्वितीयासिद्धिः, तथापि प्रत्ययार्थस्य सिद्धत्वेन भानमिति विशेषः । *आकाङ्क्षाऽनाकाङ्क्षयोरिति । अल्पान्तरत्वादाकासाशब्दस्य पूर्वनिपातः । *अनुत्थापकतावच्छेदकरूपमिति । तच्च रूपमुत्पाद्यत्वात्मकम् , तेन रूपेण प्रतीतौ शाब्दिकवृद्धानुभवो