________________
__ धात्वर्थनिर्णयः।
व्यापारस्तु भावनाऽभिधा साध्यत्वेनाऽभिधीयमाना क्रिया ।
दर्पणः न्यसंयोगादिरूपे पतत्यर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्माख्याते फलस्य विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कर्तृप्रत्ययसमभिव्याहार इति वदन्ति। तञ्चिन्त्यम् । अनुगतफलत्वानिरुक्तः। विभागजन्यसंयोगे निरवयवत्वात्प्रत्यक्षत्वात् पतत्यर्थत्वाभावस्य वक्ष्यमाणतया व्यावाऽप्रसिद्धेश्चेत्यधिकमग्रे वक्ष्यते । _ ननु व्यापारत्वं न फलप्रयोजकक्रियात्वम् । आत्माश्रयात् । क्रियात्वस्यैव हि तत्त्वाद् , दण्डादिव्यापारस्य धात्वर्थत्वापत्तेश्च । नचेष्टापत्तिः । धात्वर्थव्यापाराश्रयस्यैव कर्तृताया वक्ष्यमाणतया तदाश्रयस्य दण्डादेः कर्तुराख्यातेनाभिधानाद् 'दण्डेन देवदत्तः पचति' इत्यादौ दण्डादिपदोत्तरं तृतीयाऽनापत्तेः,प्रथमापत्तेश्च । कर्तृकरणसंज्ञ
कडारीयतया संज्ञाद्वयसमावेशासम्भवेनाभिमतकरणसंज्ञायाः परया कर्तृसंज्ञया बाधात् । किञ्च प्रयोजकत्वं यदि साक्षाजनकत्वं, तदा पचति' इत्यादौ कर्तव्यापारस्य धात्वर्थत्वानापत्तिः, तस्य करणव्यापारद्वारैव फलजनकत्वात् । यदि जनकाजनकसाधारणं तदा तण्डलक्रयणस्यापि फलप्रयोजकक्रियात्वात् तहशायामपि देवदत्तादौ पचतिः इति प्रयोगापत्तिः। तण्डलादिक्रयणादिव्यावत्तस्य ताशप्रयोजकत्वस्य निर्वतमशक्यत्वाच्च । अत एव न तजन्यत्वे सति तजन्यजनकत्वरूपं तन्त्रान्तरप्रसिद्धं तत् । तदवच्छिन्नस्य धातुवाच्यत्वे साक्षाद्विक्लित्तिजनकान्तिमाग्निसंयोगदशायामेव 'पचति' इति प्रयोगः स्यात्नत्वधिश्रयणादिदशायामपि। तेषामन्तिमाग्निसंयोगेनान्यथासिद्धतया विक्लित्त्यजनकत्वादित्यत आह-*व्यापारस्त्विति । साध्यत्वेनेति विशेषणे तृतीया । तथा च पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्वप्रकारकाभिधानविषयत्वं व्यापारत्वमित्यर्थः । अभिधानस्य प्रकारतावत्त्वं विषयतानिरूपकत्वं चौपचारिकम् । तादृशसाध्यत्वप्रकारकप्रतीतिविषयत्वमिति यावत् । 'घटं करोति' इत्यादौ कृसमभिव्याहारे घटादीनामपि साध्यत्वेन प्रतीतेरतिप्रसङ्गभङ्गाय पदान्तरसमभिव्याहाराप्रयोज्येति प्रतीतिविशेषणम् । तदसमभिव्याहारे तेषां तत्त्वेनाप्रतीतेः।अधिश्रयणाऽऽद्यऽधःश्रयणपर्यन्तक्रियाकलापस्य पदान्तरसमभिव्याहारमन्तरेणापि साध्यत्वेन प्रतीयमानत्वादुक्तव्यापारत्वमविकलमिति तदवच्छिन्ने पच्यादिधातुवा.
परीक्षा
तु सत्तादेः फलत्वं तत्कर्तृप्रत्ययसमभिव्याहृततद्धातुजन्यशाब्दबोधीया या तद्धात्वर्थनिष्ठविशेष्यतानिरूपिताप्रकारता तदाश्रयत्वरूपम् । एवं च व्यापकत्वादिदमेवादतव्यम् । न चैवं तत्वनिवेशे नानुगमः पूर्वलक्षणेऽपि तत्त्वेनैव निवेशावश्यकतयाविशेषात् । व्यापारस्य स्वरूपमाह-व्यापारस्त्विति । *साध्यत्वेनेति । तृतीया प्रकृत्यादित्वात् । तदर्थश्च प्रकारता, अभिधीयमानेत्यत्राभिधानं प्रतीतिः, निरूपितत्वसम्बन्धेन प्रकृत्यर्थसम्बद्धप्रकारितायाश्चाभिधानेऽन्वयः । कर्मप्रत्ययार्थो विशेव्यत्वम् । एवं सति साध्यत्वप्रकारकप्रतीतिविशेष्यत्वमिति फलितम् । न च कर्ट करोतीत्यादौ कटादेरपि साध्यत्वेन. प्रतीयमानत्वात्तेष्वतिव्याप्तिरिति वाच्यम्, पदान्तरसमभिव्याहाराप्रयोज्यत्वस्याभिधानविशेषणत्वात् । अस्मिन्नर्थे प्रमा
२ ९०