SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - धातुरित्यत्र स्मृत इति वचनविपरिणामेनान्वयः । फलं विक्लित्यादि । दर्पणः तत्र धातुरित्यस्य स्मृताः' इति न विशेषणम् । विभिन्नवचनान्तोपस्थापितत्वात् । विशेष्यवाचकपदोत्तर विभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमात् । अत एव 'नीलो घटा' इत्यादेर्न साधुत्वम् । तद्विवक्षायां तु 'वेदाः प्रमाणं' 'जात्याकृतिव्यक्तयः पदार्थः ' ( न्यायसूत्रे - २।२।१८ ) इत्यादौ विभिन्नवचनत्वमपि । न च प्रकृते तद्विवक्षायां बीजमस्तीत्यतो वचनविपरिणामेनान्वयं दर्शयति भूषणसारे धातुरित्यत्रेति । ननु यदुद्देशेन श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत्त्वं फलत्वम् । अन्येच्छानधीनेच्छाविषयत्वमिति यावत् । तदुक्तं हरिणा “यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥” इति । "स्वरितनितः " (पा०सू० १।३।७२ ) इति सूत्रेऽपि फलपदस्य प्रवृत्त्युद्देश्यमुख्यफले एव प्रसिद्धेः । तथा च तादृशफलस्य धातुवाच्यत्वे विक्कित्यनुकूलव्यापारदशायां तण्डुलस्य धात्वर्थतादृशफलाश्रयत्वाभावात् कर्मत्वानुपपत्तिः, तज्जन्यतादृशफलाश्रयस्य तदापत्तिश्चेत्यत आह - *फलं विक्कित्त्यादीति । अयमाशयः – फलपदस्य लोके रूढ्या तादृशार्थोपस्थापकत्वेऽप्यत्र पारिभाषिकार्थपरतैव । अन्यथा सकर्मकत्वादिव्यवहारो दुरुपपादः स्यादिति । तत्त्वं च - तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वं तद्धात्वर्थत्वं वा 1 जन्यत्वं च - जन्यत्वप्रकारकप्रतीतिविषयत्वम् । तेन सत्तादौ नातिप्रसङ्गः । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यं, तदर्थव्यापारेऽतिप्रसक्तिनिरासाय च सत्यन्तम् । तच्च विक्किलत्यादीनामक्षतम् । तस्यापि प्रकृतपच्यादिशक्यता तत्तद्रूपेणैव, तथा बोधस्य सर्वानुभवसिद्धत्वात् । यद्वक्ष्यति वाक्यार्थप्रदर्शनाऽवसरे - 'विक्कित्यनुकूलो व्यापार' इति, धातुत्वादिकमजानतोऽपि तद्बोधाच्चेति भावः । परे तु - कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम् । जन्यता चाऽऽरोपिताऽनारोपिता वेत्यन्यदेतत् । विभागज परीक्षा वाच्यत्वम् । धातुरित्यस्यैकवचनान्तस्य विशेष्यवाचकताऽस्ति । तद्विशेषणवाचकमपि यदि विशेष्यवाचकपदार्थगतसङ्ख्या विरुद्धसङ्ख्याया अविवक्षाः तदा समानवचनकत्वमेवापेक्षितम् । विरुद्धसङ्ख्या विवक्षायान्तु विभिन्नवचनकत्वमपि भवति 'वेदाः प्रमाणम्' इत्यादौ यथा । प्रकृते तु तद्विवक्षायां मानाभाव इत्याशयेनाह - धातुरित्यत्रेति । फलशब्दोऽत्र न "स्वरित जित” इति सूत्रे फलशब्दो यत्परस्तत्परः; किन्तु विलक्षणार्थबोधक इत्याशयेनाह - *फलमित्यादि । तद्धात्वर्थफलत्वं च - तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वम् । इदं च जन्यस्य यत्र फलत्वेन ग्रहणं तत्र यत्र
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy