SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम् । प्रतीतेः-लक्षणया, आक्षे दर्पणः 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । एतेन कृतिमतो, व्यापारवतो वा कर्तुः शक्यत्वेऽनेककृतिव्यापाराणां शक्यताऽवच्छेदकत्वकल्पने गौरवमिति नैयायिकाद्युक्तं दूषणमस्मन्मताऽज्ञानविजृम्भितमिति सूचितम् । _ नन्वाश्रयस्य तिर्थत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तस्य च स्वरूपाऽभिन्नतया नानासम्बन्धाऽवच्छिन्नतया च नानात्वादननुगमोऽत आह-*शक्यतावच्छेदकं चेति । *वक्ष्यते इति* । अस्य द्वितीयार्थनिरूपणाऽवसर इति शेषः । तथा च तत्राऽखण्डोपाधिरूपस्थानुगतस्य वक्ष्यमाणत्वान्न तत्र नानात्वप्रयुक्तोदोष इति भावः मीमांसकादिमतं प्रबलप्रमाणेन निराकरिष्यन् कर्तृकर्मणोरक्तं तिङर्थत्वं व्यवस्थापयितुं शङ्कते-*नन्विति। ननु 'यद् यद् बोधकं तत्तदर्थकम्' इति नियमादाख्यातजन्यकर्तकर्मप्रतीतिरेव मानमत आह-*प्रतीतेरिति । सम्भवादित्यनेनान्वितम् । सम्भवहेतुमाह-*लक्षणयेति । नन्वाख्यातस्याऽऽश्रयलक्षकत्वे भावनाभानानुपपत्तिस्तदुपपत्तये तत्र तस्य शक्तिकल्पने तु नाश्रये लक्षणासम्भवो, युगपवृत्तिद्वयविरोधात् । भावनाश्रयत्वेन भावनाश्रये लक्षणायां तु भावनायाः प्राधान्यानुपपत्तिरत आह-*आक्षेपादिति । आक्षेपोऽनुपपत्तिस्तत इत्यर्थः । तथाहि-अन्विताभिधानवादिमते पदानां विशेषणत्वेनैवार्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशेषणत्वाऽनुपपत्त्या भवति तस्या आश्रयाऽऽक्षेपकत्वम् । यद्वा अनुमानं सः । तत्प्रयोगश्च 'आख्यातपदबोध्या भावना, किञ्चिदाश्रिता, विशेषणत्वेन गृहीतशक्तिकत्वात्। घटपदबोध्यघटत्व परीक्षा शब्दार्थ' इति न्यायस्य सुप्रसिद्धत्वादिति भावः। एतेन कर्तरि कर्मणि वा आख्यातस्य शक्तिस्वीकारे बहूनां व्यापाराणां शक्यतावच्छेदकत्वे गौरवमिति यन्नैयायिकानां दूषणं तदस्मन्मताज्ञानविजृम्भितमिति ध्वनितम् । नन्वाश्रयत्वस्य शक्यतावच्छेदकत्वेऽपि तस्य निरूपकभेदेन नानासम्बन्धावच्छिन्नत्वेन च भेदागौरवं दुर्वारमेवेत्यत आह-*तत्तच्छक्तीति* । *सुबर्थनिर्णये*-द्वितीयार्थनिरूपणावसरे । एवं चाश्रयत्वस्याखण्डोपाधिरूपतया न नानाधर्मस्य शक्यतावच्छेदकत्वप्रयुक्तं गौरवमिति भावः । मीमांसकोक्तं परिहरन् स्वमतं व्यवस्थापयितुं शङ्कते-*नन्विति । *अनयोः*-कर्तृकर्मणोः। ननु यद्यदर्थबोधकं तत्तदर्थकमिति सामान्यतो व्याप्त्या कर्तकर्मप्रतीतिरेव मानं भविष्यतीत्यत आह-*प्रतीतेरिति* । *लक्षणयेति । ननु लक्षणाश्रये नोपपद्यते भावनाया भवन्मते आख्यातशक्यतया तस्याः शाब्दबोधे भानसिद्धये शक्त्या तत्प्रतिपादकत्वमपि वक्तव्यमिति युगपत्तिद्वयविरोध इत्यत आह-*आक्षेपादिति। आक्षेपोऽनुमानम्, तच्च भावना किञ्चिदाश्रिता धर्मवत्वात् , घटत्ववदित्याकारकस्य प्रयोगस्य तत्र सम्भवात्सम्भवति । एवं च भावना किञ्चिदाश्रितेत्यनुमितौ किञ्चित्पदार्थवृत्तित्वभाने आधेयतानिरूपकस्यापि भानेन यस्य तन्निरूपकत्वं स एव कत्तेति लभ्यते । ननूक्तानुमानरूपाक्षेपस्य न सम्भवः । अनुमितेा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy