________________
१६ दर्पणपरीक्षासहिते भूषणसारेपात्, प्रथमान्तपदाद्वा संम्भवादिति चेद्- अत्रोच्यते-"लः कर्मणि च भावे चाऽकर्मकेभ्यः" (पा० सू० ३।४। ६६) इति सूत्रमेव मानम् । अत्र हि चकारात्,“कर्तरि कृद्" इतिसूत्रोक्तं कतरीत्यनुकृष्यते । बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य, लकाराः कर्मणि कर्तरि चानेन विधी
. दर्पणः . . वत्' इति । समानसंविसंवेद्यत्वं तु नाऽक्षेपः, प्रमेयमित्याश्रयभाने भावनाया अभानादू भावनापदजन्यभावनाबोधे आश्रयाऽभानाञ्चेति। . ननु व्याप्त्यादिप्रतिसन्धान विनाऽप्याश्रयबोधस्यानुभवसिद्धत्वान्नाक्षेपादाश्रयभानोपपत्तिः, क्वाचित्कत्वात् तथाभानस्य । किञ्चोक्तरीत्या तदानसमर्थने आख्यातजन्यबोधे भावनायाः प्रधान्यानुपपत्तिः शक्तिहे तस्या विशेषणत्वेनैवोपस्थितत्वाद् घटत्ववत्, पुतत्तत्वस्य विचाराऽसहत्वाञ्चेत्यत आह-*प्रथमान्तपदाद्वेति । समभिव्याहृतप्रथमाऽन्तचैत्रादिपदादेवाश्रयप्रतीत्युपपत्तेरित्यर्थः । एवञ्च नाश्रयप्रतीत्यनुपपत्तिराश्रये आख्यातशक्तिसाधिकेति भावः। . .. *मानमिति । यद्यप्याश्रयत्वेनाश्रयभानार्थ तत्राख्यातस्य शक्तिरावश्यकीत्येवोतरं वक्तुमुचितं, तथापिधातोः फलव्यापारयोः शक्तिराख्यातस्याश्रयत्वे शक्तिरिति मते आश्रयस्य आश्रयत्वेनापि लाभान्न सामान्यत आश्रये स्वाभिमताख्यातशक्तिः सिद्धयतीति तन्मतनिरासार्थमपि सूत्रमेव प्रमाणत्वेनोपन्यस्तमिति बोध्यम्। ननु कर्तृपदाघटितमिदं सूत्रं कथमाख्यातस्य कर्तृवाचकत्वे मानमित्याशङ्कां निरस्यति*अत्र हीति* । नन्वेतत्सूत्रं लकाराणामेव कादिशक्तिबोधकं नाख्यातस्येत्यत आह-*बोधकतारूपामिति* । बोधजनकत्वरूपामित्यर्थः । इदं चादेशिष्वेव शक्तिरादेशानामादेशिस्मृतिद्वारार्थोपस्थापकत्वमिति मतनिरासायेत्युक्तम् । यथा चैतत्
परीक्षा तिज्ञानपरामर्शजन्यतया शब्दश्रवणे व्याप्त्यादिप्रतिसन्धानाभावेऽपि शाब्दबोधस्यानुभवसिद्धत्वादत आह-*प्रथमान्तपदावति । चैत्रः पचतीति वाक्यघटकं यत्प्रथमान्तं पदं चैत्र इत्यादि तेनाश्रयस्य प्रतीत्युपपत्तौ न तत्राख्यातस्य शक्तिः स्वीका
येति भावः । *मानमिति* । अनुमापकमित्यर्थः । आख्यातम्-आश्रयशक्तम् , "ल: कर्मणि" इति सूत्रगृहीतशक्तिकत्वात् । अणादितद्धितवदिति । यद्यद्धर्मावच्छिन्नगृहीतशक्तिकपाणिनीयसूत्रकं भवति तत्तद्धर्मावच्छिन्नशक्तं भवतीति सामान्यतो व्याः तिः। ननु तत्र कर्तरीत्यस्याभावेन कथं तत्सूत्रगृहीतशक्तिकत्वरूपहेतुसिद्धिरत आह*अत्र हीति* । यद्यपि परमतस्य प्रथमान्तपदेन चैत्रत्वादिना चैत्रस्य लाभेऽप्याश्रयत्वस्य न लाभ इत्याख्यातस्य तत्र शक्तिः स्वीकाय्येत्येवमपि निराकरणं संभवतिः तथाऽपि अनन्यलभ्यत्वेनाश्रयत्वावच्छिन्न एव शक्तिरूपेण, नत्वाश्रयत्वावच्छिन्न इति यन्मतम्, तदप्यपाकर्तुमनुमानप्रदर्शनमेवं कृतम् । नन्वेतावता लकारस्य शक्तिः सिध्यति न त्वाख्यातस्येत्यत आह-*बोधकतेति* । बोधजनकत्वं शक्तिः सा च यो लौकिकशब्दसमवायी तत्र कल्प्यते इति भावः। इदं च स्थानिन्येव शक्तिः, आदेशा