________________
धात्वर्थनिर्णयः।
१७ यन्ते । नकारविसर्गादिनिष्ठां . कर्मकरणादिबोधकताशक्तिमा. दाय शसादिविधानवत् । न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे। तथा च-कर्तृत्व-कृतिः कर्मत्वञ्च फलमेवार्थोऽस्त्विति शङ्कयम् । फलव्यापारयोर्धातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् ।
अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र ल
___ दर्पणः
तथा वक्ष्यते । *विधीयन्ते इति । तथा च वर्णस्फोटपक्षे श्रूयमाणवर्णानामेव वाचकताया व्यवस्थापयिष्यमाणतया "लः कर्मणि" (पा० सू० ३।४।६९) इत्यादिसूत्राणां तिबादिशक्तिग्रहे एव तात्पर्यावधारणेन सम्भवति तस्याऽख्यातशक्तिसाधकप्रमाणत्वमिति भावः । *नकारविसर्गादीति। रामान्' 'रामैः इत्यादा वित्यर्थः। *कर्तृकर्मपदे*इत्यस्यानुवृत्त्योपात्ते इत्यादिः । *कर्तृत्वकर्मत्वपरे इति । आकृतिशक्तिवादमभिप्रेत्य भावप्रधाननिर्देशाद्वेति भावः । *कर्तृत्वं कृतिरिति । जो यत्नवाचकत्वेन तत्प्रकृतिककत्रर्थकतृजन्तकर्तृशब्दस्य कृत्याश्रयवाचकतया तदुत्तरभावप्रत्ययेन प्रकृत्यर्थप्रकारीभूतकृतिरूपधर्मबोधनादिति भावः। *कर्मत्वं च फलमिति* । कर्मशब्दस्य धात्वर्थफलाश्रये पारिभाषिकत्वादिति भावः । *शड्यमिति । तथा च तत्सूबलान्न कर्तृकर्मणोराख्यातशक्तिः सिद्धयतीति भावः । ___ *दर्शनान्तरीयेति । दर्शनं शास्त्रं, न्यायादिः,अन्यद्दर्शनं दर्शनान्तरम्। तत्र भवा दर्शनान्तरीया। गहादित्वाच्छः। 'पचति' इत्यस्य पाकं करोतीति विवरणात् फलं पच्याद्यर्थः, तिङ्तु व्यापारवचन इति मीमांसका मन्यन्ते। तन्मते व्यापारस्यान्यल
परीक्षा नां तु स्थानिस्मृतिजननद्वारा शाब्दबोधजनकत्वमिति परमतनिराकरणायेत्थमभिहितम् । ननु कृतित्वस्य जातिरूपत्वेन शक्यतावच्छेदकलाघवात्कृतावेव शक्तिसिद्धयर्थ कर्तृपदं कर्तृत्वपरमेवास्त्विति.चेद्? न । प्रवृत्तिनिवृत्तिजीवनयोनियत्नेष्वेकाकारप्रत्ययाभावेन न यत्नत्वस्य त्रितयसाधारणत्वे मानाभावात् , तथा च गौतमसूत्रम्-"समानप्रसवा जातिः" इति-समानं प्रसवो बुद्धिजननं यस्याः सेत्यर्थः । ननु कार्यत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतया कृतित्वजातिसिद्धिरिति तदवच्छिन्ने आख्यातस्य शक्तिकल्पने लाघवमिति चेद ? न । प्राग्भावप्रतियोगित्वं हि कार्य्यत्वं तच्च ध्वंससाधारणम् । न च ध्वंसनिष्टकार्य्यतायामपि भावत्वावच्छेदकं वाच्यम् , तच्च न सम्भवति, ध्वंसं प्रति कृतित्वेन जनकतायां मानाभावेन व्यभिचारात् । यदि च समवायसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकतया कृतित्वजातिसिद्धिरित्युच्यते, तदापि संयोगादिजनकतावच्छेदकतया सिद्धा या क्रियात्वजातिः, तामादाय विनिगमनाविरहेण न नियमः । तादृशकृतित्वावच्छिन्ने शक्तिसिद्धिरित्याशयेन नैयायिकमतमपि दूषयति-*न चेत्यादिना । न चेत्यस्य शङ्कयामत्यत्रान्वयः । *फलमिति । कर्मशब्दस्य फलाश्रये पारिभाषिकत्वादिति भावः। *अयोगादिति । तथा च "लः कर्मणि'' इति सूत्रं न तत्र शक्तिग्राहकमिति भावः। • *दर्शनान्तरीयरीत्येति । अन्यदर्शनं दर्शनान्तर; दर्शन शास्त्रं तन्त्र भवा दर्शना
३ द. ५०