SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १८ दर्पणपरीक्षासहिते भूषणसारेकारविधिः स्यादिति चेत् , तर्हि कृतामपि कर्तृकादिवाचित्वं न सिध्येत् । “कतरिकृद्" इति च,"लः कर्मणि" इत्यनेन तुल्ययोगक्षेमम् । अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भवे वाच्यत्वं माऽ दर्पणः भ्यत्वाभावात्तत्र लकारविधौ न किञ्चिद् बाधकम् । यद्यप्युक्तरीत्या व्यापारे शक्तिसिद्धावपि फलशक्तिबोधकं कर्मणीत्यनुपपन्नमेव, तथाप्यभिधानाऽनभिधानव्यवस्थार्थ तदप्यावश्यकमेव, द्वेधा भानं तु कथञ्चित् परिहरणीयमिति भावः। *कृतामिति । कृत्संज्ञकानां ण्वुल्तृजादीनामित्यर्थः । ननु "कर्तरि कृत्” (पा० सू० ३।४।६७) इत्येव तत्र शक्तिसाधकमत आह-*कर्तरि कृदिति चेति । तत्सूत्रादेव च कर्तरीति अत्रानुवर्त्तते । तथा च पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽत्राप्यनुवर्त्यस्य तस्य धर्मिपरत्वमेव । अत्र धर्मपरतायां तु तत्रापि धर्मपरतैव स्यात् । तदेवाह-*तुल्ययोगक्षेममिति* । अलब्धलाभो योगो, लब्धरक्षणं क्षेमम् । एवञ्च “लः कर्मणि" इत्यस्यानन्यलब्धभावनाया आख्यातार्थत्वप्रतिपादकत्वोपगमे न्यायसाम्यात् , “कर्तरि कृत्" (पा० सू० ३।४।६७ ) इत्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वम् । तस्या आक्षेपादेव लाभान्न कृतां तच्छक्तिप्रतिपादकं तदिति यदि, तर्हि "लः कर्मणि" ( पा० सू० ३।४।६९ ) इत्यपि नाऽख्यातस्य भावनाशक्तिप्रतिपादकमिति समानमित्यर्थः । - ननु पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽप्यनुवृत्तस्य तस्य शब्दाधिकाराऽश्रयणेन धर्मपरत्वसम्भवान्नोक्तदोषः । यदि च शब्दाधिकाराऽऽश्रयणं सत्येव गमके, प्रकृते च तदाश्रयणे प्रमाणाभाव इति विभाव्यते, तदापि 'शाक्तः कारक' 'शक्तिमत्कारकम्' इति पक्षद्वयस्याप्याकरसिद्धतया तद्विकल्पस्य तिकृतोर्व्यवस्थितत्वाश्रयणादर्थाधिकाराश्रयणेऽप्यभिमतार्थलाभोऽक्षत एवेत्यत आह-*अपि चेति । तथा च विकल्पव्यवस्थाया एवाप्रामाणिकत्वेनैकार्थपरतैव न्याय्येति भावः। नन्वाख्यातस्य व्यापारावाचकत्वे कथं ततस्तबोधोऽत आह-*भावनाया इति* । *कृदादिवदिति । "तत्र तस्येव" ( पा० सू० ५।१।११६ ) इति वतिः। कृदादिस्थल इवेत्यर्थः। आदि परीक्षा न्तरीया । फलमात्रस्य धात्वर्थत्ववादिमतमाश्रित्येयमाशङ्का ।*न ।सद्धयेदिति । इष्टापत्तिरिति तु न, वक्ष्यमाणकर्त्रधिकरणसिद्धान्तभङ्गापत्तेः । “कर्तरि कृत्” इति सूत्रं तत्र तेषां शक्तिप्राहकमस्तीतिमतं निराकरोति-*कर्तरीत्यादिना* । *तुल्ययोगक्षेममिति* । कस्मादेव सूत्रात्कर्तरीति पदं “लः कर्मणि इत्यत्रानुवर्तते तच्च यदि "ल: कर्मणि"इति सूत्रे कर्तृत्वपरम् तदा पूर्वसूत्रेऽपि तथैव स्यादिति कृतां कर्तरि शक्तिसाधकं न भविष्यतीति भावः।। ___ ननु पूर्वसूत्रस्थं कर्तृपदं कर्त्तपरमेवास्तु, इह तु शब्दाधिकाराश्रयणात्कत्तत्वपरं भविष्यतीत्यतआह-अपि चेति*। *अस्त्विति । शब्दाधिकारस्य गुरुत्वेन यत्र विशिष्य किञ्चित्साधकमस्ति तत्रैव शब्दाधिकाराश्रयणमन्यत्र सर्वत्राधिकार एवेति भावः । नन्वेवं भावनायाः प्रतीतिर्न स्यात्फलमात्रस्य धात्वर्थत्वादत आह-*भावनायाइति । ननु भावना आख्यातवाच्यैव न तु कर्त्तराख्यातवाच्यत्वं, तथासति भावनाया आक्षे
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy