________________
......धात्वर्थनिणयः।.. स्तु । तथा सति प्राधान्यं तस्या न स्यादिति चेत् ? न । घटमानयेत्यादावाक्षिप्तव्यक्तरपि प्राधान्यवदुपपत्तेः। पचतीत्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेद् ? न । पाकानुकूलव्यापारवतः कर्तुरपि विवरणविषयत्वाऽविशेषात् । न च कर्तुर्विवरणं तात्पर्याऽर्थविवरणं, पाकं करोतीत्यशब्दार्थकर्मत्वविवरणवद्, इतरेतरयोगद्वन्द्वे समुच्चयांशविवरणवद्वा, न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् ।
दर्पणः पदात् कर्त्तविहिततद्धित इत्यादेः परिग्रहः । तथा च यथा भवन्मते धातोर्व्यापारावाचकत्वेन कृदर्थक क्षिपभावनाया बोधविषयत्वं; तथाऽऽख्यातेऽपीति भावः। *तथा सतीति । भावनाया आख्यातावाच्यत्वे सतीत्यर्थः । *तस्याः*-भावनायाः। *प्राधान्यम्-मुख्यविशेष्यत्वम् । *घटमानयेति । 'जातिः पदार्थः' इति मते जात्याक्षिप्तव्यक्तेर्यथा प्राधान्यम्; तथा काक्षिप्तभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः । शक्तिग्राहकेषु परिगणिताद्विवरणाद्भावनावाचकत्वमाख्यातस्याऽऽयास्यतीत्याशङ्कते-*भावनाया इति । विवरणेति । तत्समानार्थकपदाऽन्तरेण तदर्थकथनस्य विवरणतया, प्रकृते पचतीत्यस्य पाकभावनेत्याख्यातस्य भावनापदेन विवरणात्तस्य भावनावाचकत्वमित्यर्थः। विवरणस्य स्वस्वबोधानुसारितया, न तेनाऽर्थनिर्णय इत्याह-*पाकाऽनुकूलेति ॥पचतीत्यस्यैककर्तृका पचिक्रियेति कर्तुविवरणस्याऽपि दर्शनेनाऽऽख्यातस्य भावनायां शक्तिरुत कर्त्तरीत्यत्र विनिगमकाऽभावादिति भावः । *इतरेतरयोगद्वन्द्व इति ॥ समाहारद्वन्द्वे, उत्तरपदलक्ष्याऽर्थसमाहारस्य चशब्देन विवरणादुक्तमितरेतरेति । धवखदिरावित्यादिद्वन्द्वघटकपदाऽशक्यसाहित्यस्य विग्रहवाक्यस्थचशब्देन विवरणवदित्यर्थः । इदं चाऽन्वयप्रयोजकरूपवत्त्वं योग्यता। एवञ्च ‘घटेन जलमाहर' इत्यत्र जलाऽऽहरणप्रयोजकतया छिद्रेतरत्ववत् प्रकृते द्वित्वाऽन्वयप्रयोजकतयाऽपदार्थसाहित्यस्यापि भानमित्यभ्युपेत्योक्तम् । तत्र साहित्यस्य द्वित्वाऽऽद्यतिरिक्तस्याऽननुभवात्तस्य द्विवचनादिनैवोपस्थितेन तत्र समासघटकप्रत्येकपदवृत्तिः । तस्यैव चेन विवरणमिति मताऽन्तरन्तु वक्ष्यते-*तुल्यत्वादिति । भाव
परीक्षा पस्य वाच्यतया कृदन्त इव आख्यातस्थलेऽपि तस्या अशब्दार्थत्वेन प्राधान्यं न स्यादित्याशङ्कय समाधत्ते-*तथासतीत्यादिना* । *आक्षिप्तेति । जातावेव तन्मते शक्तिस्वीकारात् । ननु पचतीत्यस्य पाकानुकूलाभावनेति विवरणं दृश्यतेः तत्समानार्थकपदान्तरेण तदर्थकथनं हि विवरणम्, तच्चाख्यातस्य भावनार्थकत्व एवोपपद्यत इत्याशयेनाह-*पचतीत्यादाविति । *कर्तुरपीति । पचतीत्यस्यैककर्त्तका पचिक्रियेति विवरणस्य सर्वसम्मतत्वात्। ननु कर्त्त विवरणं नवाच्यार्थविवरणमिति दृष्टान्तेनाशय निराचष्टे-*न चेति । पचतीत्यस्य पाकं करोतीति विवरणमपि कैश्चित्क्रियते तन्मतेनायं दृष्टान्तः । *इतरेतरयोगद्वन्द्व इति ।धवखदिरावित्यादिद्वन्द्वघटकशब्दानां साहित्ये यद्यपि शक्ति स्तिः तथाऽपि चकारेण तस्य विवरणं दृश्यते, समाहारद्वन्द्वे तूत्तरपदस्यल