________________
दर्पणपरीक्षासहिते भूषणसारे... किञ्च-पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कतुर्वाच्यत्वमावश्यकम् । पक्ता देवदत्त इतिवत् । न चाऽभेदबोधे समानविभक्तिकत्वं नियामकम् । तञ्च तत्र नास्तीति वाच्यम् ।
. दर्पणः नापदेनाऽऽख्यातस्य विरणमप्यपदार्थविवरणमित्यस्यापि वक्तुं शक्यत्वादित्यर्थः । स्वस्वबोधाऽनुसारिविवरणस्य नाऽर्थनिर्णायकत्वमित्यप्युभयोः समानमिति भावः ।
नन्वाख्यातस्य कर्त्तवाचित्वे तदाक्षिप्तभावनायाः प्राधान्याऽनुपपत्तिः । नचाsकृतिवादे जात्याक्षिप्तव्यक्तिवत् प्राधान्यमुपपादितमेवेति वाच्यम् । दृष्टान्तदाान्तिकयोवैषम्यात् , तथा हि कर्ना स्वस्वरूपनिरूपकतया भावनाऽऽक्षेप्तव्या, भावनाविरहिणः कर्त्तत्वासम्भवात् । ततश्च धर्मिग्राहकमानसिद्धगुणत्वेन प्राधान्याऽसम्भवः, कृतीव, जात्या तु परिच्छेद्यतयाऽवगतस्य द्रव्यस्य तथैवाऽऽक्षेपाद् भवति तस्य प्राधान्येन भानमिति प्राधान्याऽनुरोधाद्भावनाया वाच्यत्वमावश्यकमित्यता दूषणाऽन
ऽन्तरमाह-*किञ्चेति । *अभेदाऽन्वयदर्शनादिति। देवदत्ताभिन्नैककर्तृको वर्तमानो व्यापार इत्याकारकबोधस्याऽऽकरसम्मतत्वादित्यर्थः। *तदनुरोधेनेति। अभेदाऽन्वयाऽनुरोधेनेत्यर्थः । *आवश्यकमिति । अन्यथाऽनुभूयमानतादृशबोधाऽपलापाssपत्तिरिति भावः । *नियामकमिति* । तद्विभक्त्यन्तनामार्थनिष्ठाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति तद्विभक्त्यन्तपदजन्योपस्थितिहेतुत्वस्य, नीलो घट इत्यादौ क्लप्तत्वादित्यर्थः । *तच्चेति । अभेदान्वयबोधकप्रयोजकसमानविभक्तिकत्वं चेत्यर्थः । तत्र*-देवदत्तः पचतीत्यादौ। तादृशनियमे व्यति
परीक्षा क्षणया समाहारप्रतिपादकतेति भावः। *भावनायामपीति । भवन्मते भावना न धातुवाच्या, तस्याः प्रतीतिस्तु भवतीति तस्याः अपदार्थभूताया विवरणमित्यपि वक्तुं शक्यमिति भावः।
नन्वाख्यातस्य कर्तवाचकत्वे भावनायाः प्राधान्यं न स्यात् । आक्षिप्ताया भावनाया गुणत्वात्, जात्याक्षिप्तव्यक्तेस्तु परिच्छेद्यत्वेन सम्भवति प्राधान्यमत आह*किञ्चेति । *दर्शनादिति। देवदत्तादिभिन्नैककर्तृको वर्तमानो विक्लित्यनुकूलो व्यापार इत्याकारकस्य शाब्दबोधस्यानुभवसिद्धत्वात् । *आवश्यकमिति । पदप्रतिपाद्यस्यार्थस्य पदबोध्यार्थे प्रकारतया भानस्य सर्वत्र दर्शनात्कर्तुंर्वाच्यत्वमावश्यकम् । अत एव पचतीति शब्दजन्यबोधे सति कः कीदृश इति प्रश्नोः देवदत्तो घनश्याम इत्युत्तरं च सङ्गच्छते तत्र दृष्टान्तमाह-*पक्ता देवदत्त इतिवदिति* । पाकक–भिन्नो देवदत्त इत्याकारकस्य शाब्दबोधस्य ततो जननवदित्यर्थः। *अभेदबोध इति* । अभेदसम्बन्धावच्छिन्नप्रकारतान्वयबोधे इत्यर्थः । *समानविभक्तिकत्वम्-विशेष्यवाचकस्य शब्दस्य विशेषणवाचकशब्दोत्तरविभक्तिसजातीयविभक्तिकत्वम् । नियामकमिति* । नीलो घट इत्यस्मादिव नीलस्य घट इति शब्दादभेदान्वयबोधो न जायत इत्यतोऽभेदसम्बन्धावच्छिन्ननामार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे विशेष्यवाचकस्य विशेषणवाचकोत्तरविभक्तिसजातीयविभक्तिकत्वज्ञानं कारणमिति कार्यकारणभावस्यावश्यकत्वादिति भावः । तादृशकार्यकारण