SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ - धात्वर्थनिर्णयः। 'सोमेन यजेत' 'स्तोकं पचति' 'राजपुरुष' इत्यादावष्यभेदबोधाऽनाप दर्पणः रेकव्यभिचारस्थलानि दर्शयति-*सोमेनेत्यादिना । । ___ नन्वत्र यागे सोमस्य करणत्वेनैवान्वयात् कथमुक्तनियमस्य व्यभिचार इति चेद् ? न।सोमस्य यागभावनायां करणत्वेनाऽन्वये यागस्यापि तत्र करणत्वेनैवाऽन्वयात् 'सोमेन यागेनेष्टं भावयेद्' इत्युभयविधाने वाक्यभेदप्रसङ्गः । सोमस्य यागवत् फलभावनाकरणत्वेन प्राधान्यापत्तिः, यागार्थत्वानुपपत्तिः, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तयागेनैव करणाकालानिवृत्तेविभिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्चयानुपपत्तिश्च । 'सोमेन यागम्' इत्यन्वयाभ्युपगमे यद्यपि सोमस्य न यागार्थत्वानुपपत्तिः करणत्वेनैवान्वयात् , तथापि प्रत्ययार्थभावनाकरणत्वेन उपस्थितस्य साध्यत्वेनाऽन्वयानुपपत्तिर्दुष्परिहरैवेति सोमपदस्य मत्वर्थलक्षणया 'सोमवता यागेनेष्टं भावयेत्' इति विशिष्टार्थविधानाद्वाक्यभेदप्रसङ्गो नेति मीमांसकसिद्धान्तः । तत्र चोक्तनियमे व्यभिचारो दुर्वार इति भावः। *स्तोकं पचतीति । अत्रापि धात्वर्थव्यापारजन्यफलसम्बन्धिनि फले विभिन्नविभक्तिकस्तोकपदार्थस्याभेदान्वयादित्यर्थः । ननु समानविभक्तिकत्वं नामाऽर्थयोरेवाऽभेदाऽन्वयबोधे प्रयोजकम् । अत एव व्युत्पत्तौ द्विवचनस्यैवोल्लेखः। नामत्वं च वक्ष्यते । प्रकृते चाऽनुयोगिप्रतियोगिनोर्नामार्थत्वाभावानोक्तदोषोऽत आह-*राजपुरुष इति । परीक्षा भावे व्यभिचारमाह-*सोमेनेत्यादिना* । सोमाभिन्नेन यागेनेष्टम्भावयेदित्याकारकस्य शाब्दबोधस्यानुभवसिद्धत्वात् । न च यागरूपायां भावनायां सोमस्य करणतया बोधोऽस्त्विति न व्यभिचार इति वाच्यम् । सोमस्य तत्र करणत्वेनान्वये यजधात्वर्थफलस्य यागस्यापि करणत्वेनान्वयात् । एककरणावरूद्ध करणान्तराकाङ्क्षाया अभावेन सोमेन यागं भावयेत् , यागेनेष्टं भावयेदित्याकारको बोधः स्यात् , तथा च वाक्यभेदस्यापत्तिरिति सोमपदार्थोऽपि याग एव वाच्यः सोमादिपदानां ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्रेव नामधेयपरत्वात् । एवं प्रत्ययवाच्यभावनायाः समानपदोपातत्वाद्धात्वर्थफलेनैव करणतयाऽन्वयेन करणाकाङ्क्षाशान्तेविभिन्नपदोपात्तस्य सोमस्य तत्रान्वय एव न स्यादित्यभिप्रायात् । न च सोमस्य धात्वर्थफलेऽभेदेनान्वयस्वीकारे सोमपदात्तृतीयानुपपत्तिः क्रियाविशेषणानां कर्मत्वादिति वाच्यम् ? यत्र फलस्य कर्मतयान्वयविवक्षा तत्रैव तद्विशेषणवाचकादू द्वितीयाः यत्र तु फलस्यैव करणतया भावनां प्रति अन्वयः, तत्र तत्समानाधिकरणपदात्तृतीयाया न्याय्यत्वात्।नच फलस्य व्यापारोत्तरकालिकत्वेन कथं तत्र करणत्वमिति वाच्यम् ? भावनाभाव्यनिवर्तकत्वरूपपारिभाषिककरणत्वस्य विवक्षितत्वात् । तत्र “करणे यज" इतिसूत्रमेव मानम् । स्थलान्तरेऽप्युक्तकार्यकारणभावे व्यभिचारोऽस्तीत्याह-*स्तोकं पचतीति । अत्र स्तोकपदार्थस्य फले कर्मणि, अभेदेनान्वयो दृश्यते, विशेष्यवाचकस्य धातोः समानविभक्तिकपदोपस्थाप्यं तु नास्तीति व्यभिचार इति भावः । नन्वभेदसम्बन्धावच्छिन्ननामार्थनिष्टप्रकारतानिरूपितनामार्थनिष्ठविशेष्यताशाली यत्रान्वयबोधस्तत्रैवोक्तं समानविभक्तिकत्वं नियामकमिति बम इति:नोक्तस्थले व्यभिचार इत्यत आह-*राजपुरुष इति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy