________________
२२
दर्पणपरीक्षासहिते भूषणसारे -
त्तेः । न च लक्षणया कर्त्तुरुक्तत्वात्सामानाधिकरण्यम् । पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वाऽनापत्तेः । एवं वैश्वदेवीत्यादितद्धि
दर्पणः
९. यद्यपि "सोमेन यजेत" इत्यत्रेव "देवदत्तः पचति" इत्यत्रापि समानविभक्तिकत्वस्याऽतन्त्रतयाऽभिमतबोधान्वयानुरोधात् कर्तृवाचित्वं सिद्धमेव, तथाऽपि व्युत्पत्तेमार्थद्वयविषयकत्वेऽपि व्यभिचारो दुरुहर एवेत्याशयेन नामार्थद्वयस्थलमुपात्तम् । नैयायिकमतेन चेदम् । तैः कर्मधारये षष्ठीतत्पुरुषे च पूर्वपदशक्यलक्ष्यान्यतरस्योत्तरपदार्थेऽभेदान्वयोपगमात् । स्वमते तु जहत्स्वार्थवृत्त्यभ्युपगमेन पूर्वोत्तरपदार्थयोरन्वयस्यैवाऽभावेनोक्तव्युत्पत्तेरप्रसरा दिति बोध्यम् । इदमुपलक्षणं षष्ठयर्थबहुव्रीहेरपि ॥
अपरे तु — उक्तव्युत्पत्तौ नामांशेऽसमस्तत्वस्यापि विशेषणान्नोक्तस्थले व्यभिचार इत्याहुः अधिकम वक्ष्यते । सामानाधिकरण्यमिति । पदयोरेकार्थाऽभिधायित्वमित्यर्थः । *यौगिकानामिति । योगोऽवयववृत्तिस्तन्मात्र पुरस्कारेण प्रवृत्तानामित्यर्थः । * द्रव्यवाचित्वाऽनापत्तेरिति । धर्मिशक्तत्वाऽनापत्तेरित्यर्थः । * एवमिति । लक्षणयैव सामानाधिकरण्योपपादने इत्यर्थः । इत्थमेवेति वार्थः । *वैश्वदेवीत्यादीति । द्रव्यवाचित्त्वाऽनापत्तेरित्यनुषज्यते । तथा च बलाबलाऽधिकरणोच्छेदाऽपत्तिरिति भावः ।
।
तथाहि - "तते पयसि दध्यानयतिसा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इति श्रूयते । अत्रायं संशयः- किमनया श्रुत्याऽऽमिक्षावाजिनोभयगुणकमेकं कर्म विधीयते ? अथवा तत्तद्गुणदेवताभिन्नं कर्मद्वयम् ? इति । वाजेनान्नेनाऽऽमिक्षारूपेण सम्बन्धाद्वाजिनो विश्वे देवाः, ताननूद्य वाजिनगुणो विधीयते । तेनोभयगुणकं वैश्वदेवमेकं कर्मेति । पूर्वपक्षे, वैश्वदेव्यामिक्षा' इत्यत्र तद्धितस्य देवतासम्बन्ध्यर्धकतया श्रौतः सम्बन्धो, 'वाजिभ्यो वाजिनम्' इत्यत्र तु वाक्येन सः । सत्यामपि पदान्तरापेक्षायां परीक्षा
नैयायिकसम्मतशाब्दबोधे न व्यभिचारोऽत्र दर्शितस्तेषां मते हि तत्पुरुषसमासे पूर्व - पदस्य विग्रहवाक्ये श्रूयमाणा या पूर्वपदाद्विभक्तिस्तदर्थ विशिष्टलक्षणायाः सत्वात् । एवं च प्रकृते राजपदलक्ष्यार्थस्य राजसम्बधिनोऽभेदेन पुरुषेऽन्वयदर्शनेन व्यभिचारो द्रष्टव्यः, विभक्तेः साजात्यं च विभक्तिविभाजकधर्मेण प्रथमान्तत्वादिना बोध्यम् । *लक्षणया*—आख्यातस्य लक्षणया । युगपदवृत्तिद्वयविरोधश्चाप्रामाणिक इति भावः । स्वमतरीत्या समासादिवृत्तावेकार्थीभावस्य स्वीकारात्, लक्षणाया अभावान्न राजपुरुष इत्यत्र व्यभिचारः; राजसम्बन्धिपुरुषे राजपुरुषेति समुदायस्य शक्तिस्वीकारात्, किन्तु स्तोकं पाक इत्यादौ व्यभिचारः, यदि च 'नामार्थयो:' इति व्युत्पत्तौ नामार्थत्वं नामजन्यप्रतिपत्तिविशेष्यत्वमुच्यते तदा प्रकृते प्रकृतिप्रतिपाद्यक्रियायामन्वयात्, घजर्थस्य सिद्धावस्थापन्नार्थस्य विशेष्यत्वात्तत्र स्तोकपदार्थानन्वयान्न व्यभिचार इति विभाव्यते, तदा स्तोकं पक्त्वा व्रजतीत्यत्र व्यभिचारो द्रष्टव्यः । *लक्षणयेत्यादि । भावनया शक्तस्याख्यातस्य भावनाश्रये लक्षणया द्वयोः सामानाधिकरणमित्यर्थः । * यौगिकानाम्* । योगोऽवयवशक्तिस्तन्मात्रपुरस्कारेण वृत्तानाम् । *अनापतेरिति । तथा च सिद्धान्ते भवदीये यत्स्ववाच्यवाच्ये द्रव्येऽरुणादिपदप्रतिपाद्यस्या