________________
धात्वर्थनिर्णयः।
तान्तानामपि । “अनेकमन्यपदार्थ, "साऽस्य देवता" इत्यनुशासनेन पिङ्गे अक्षिणी यस्याः, विश्वे देवा देवता अस्याः इति विग्रहदर्शनात् प्रधानषष्ठयर्थ एव अनुशासनलाभात् ।
___ दर्पणः स्वाभिन्नार्थकपदस्यैवापेक्षणान्न श्रौतत्वबाधः सम्बन्धस्य । यत्र तु भिन्नार्थकपदापेक्षा तत्रैव वाक्यस्य विनियोजकत्वात्। एवञ्च-"वैश्वदेव्याऽऽमिक्षा" इत्येतद्विहितवैश्वदेवयागानुवादेन न वाजिनगुणविधानम्,श्रौतद्रव्येण निराकाङ्क्षत्वात् । किन्तु कर्मान्तरविधिः। “वाजिभ्यः इति चापूर्वदेवताविधानमिति राद्धान्तः। यदि च तद्धितस्य देवतासम्बन्धे एव शक्तिस्तदा वाजिनाऽऽमिक्षयोर्वाक्यविनियोज्यस्य साम्यादामिक्षाद्रव्ये देवतासम्बन्धस्य श्रौतत्वमिति सिध्यान्तव्याकोपः । लक्षितद्रव्यमादाय देवतासम्बन्धे श्रौतत्वसम्बन्धात्तदनुपपत्त्यभावेन तद्धितस्य द्रव्यार्थकत्वकल्पनमत्ययुक्तं स्यादिति। ... *अनुशासनलाभादिति । उपलक्षणमिदं, युक्तेरपि । तथाहि घटपदाद् घटप्रकारकबोधवद्दण्ड्यादिपदाद्दण्डसम्बन्धवानिति प्रतीतिः सर्वसिद्धा । तत्राऽऽकृत्यधिकरणन्यायेन सम्बन्धमात्रं मतुबादिवाच्यं स्यात् । अत एव 'देवदत्तस्य गोमत्त्वम्' इत्यत्र त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छते । घटत्वमित्यादौ प्रकृत्यर्थघटत्वबोधकत्ववत् प्रकृतिजन्यबोधकप्रकारस्य भावप्रत्ययार्थत्वाद् ; विशेषस्य संसर्गस्य कथं ततो बोध इति तु नाऽऽशङ्कनीयम् । यतस्तस्य स्वाक्षिप्तव्यक्त्यंशे प्रकारतयैव भानात् । एवं मत्वर्थविहितबहुव्रीहेरप्येकं हायनमस्या इति विग्रहे, देवतार्थकतद्धितस्यापि विश्वेदेवा देवता अस्या इति विग्रहे च प्रत्ययार्थसम्बन्धस्यैव प्राधान्यदर्शनात् तस्यैव वृत्तिवाच्यत्वनिर्णयः। उक्तञ्च
यस्मिन्नन्यपदार्थे च बहुव्रीहिर्विधीयते ।
तस्याऽपि प्रत्ययार्थत्वात् सम्बन्धस्य प्रधानता ॥ इति । - नच गोमानित्यादौ सम्बन्धिप्रतीत्यनुपपत्तिः। उभयाऽऽश्रितेन सम्बन्धेनाऽऽअपात्तदुपपत्तेः । तव कर्तृवत् सन्बन्धवच्च । नचाऽसत्त्वभूतसम्बन्धस्यैव विभक्त्यर्थ
परीक्षा न्वयप्रतिपादनं तद्विरोध इति भावः। *एवम्-समासवत्। तद्धितान्तानामपीति* । द्रव्यवाचित्वानापत्तेरिति शेषः । एवं च बलाबलाधिकरणे-'तप्ते पयसि दद्ध्यानयति सा वैश्वदेव्यामिक्षावाजिभ्यो वाजिनम् इत्यत्र वाजेनामिक्षारूपेण सम्बन्धाद्वाजिनो विश्वे देवास्ताननूद्य वाजिनं गुणो विधीयते, तेनोभयगुणकमेकं कर्मेति पूर्वपक्षे वैश्वदेव्यामिक्षेत्यत्र “साऽस्य देवता इति सूत्रविहिततद्धितस्यदेवताविशिष्टद्रव्याभिधायकतयाआमिक्षायास्तत्र श्रौतः सम्बन्धः। न चामिक्षाऽपि पदान्तरेण प्रतिपादितेति वाक्यीयत्वमेव तस्या इति वाच्यम् ? स्वाभिन्नार्थकपदान्तरापेक्षणेऽपि श्रौतत्वमिति सिद्धान्तात् । एवं च वैश्वदेव्यामिक्षेति वाक्यबोधितयागानुवादेन वाजिनगुणविधानं न युक्तम् , वाक्यापेक्षया श्रुतेर्बलवत्वात् , वाक्यस्य दुर्बलत्वाच्छौतद्रव्येणैव निराकाङ्कत्वान्न वाजिनगुणविधानमितियुक्त किन्तु वाजिभ्यो देवतान्तरेभ्यो वाजिनविधानमिति कर्मान्तरमेवैतदिति सिद्धान्तितम् । द्रव्यवाचित्वाभावे तद्विरोध इति भावः । भवन्मते त