SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २४ दर्पणपरीक्षासहिते भूषणसारेतथा च "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति वाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्ये एवाऽन्वयप्रतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः । द्रव्यवाचकत्वसाधकमूलयुक्तः दर्पणः तया तद्विहितमतुबादेस्तादृशसम्बन्धबोधकत्वे तत्र लिङ्गसंख्याऽनन्वयाऽऽपत्त्या सत्त्वभूतसम्बन्धे एवानुशासनाऽऽदरेण शक्तिरभ्युपेया। एवञ्च द्रव्यमेवार्थो मत्वर्थीयस्यास्तु, सम्बन्ध आक्षेपलभ्य एव किं न स्यात् । किञ्च मतुबादेः सम्बन्धसामान्यार्थकत्वे तस्य सम्बन्धादिपदपव्यताऽऽपत्त्या सम्बन्धविशेषार्थकत्वमेवोररीकरणीयम् । तत्त्वं चाऽनुयोगिप्रतियोगिविशेषनिरूप्यत्वम् । तथावैकस्य निरूपकस्य प्रकृत्या लाभेऽप्यनुयोगिरूपनिरूपकमानार्थे तत्र शक्तिकल्पने त्वतीव गौरवमिति वाच्यम् । मतुबादेऽसत्त्वभूतसम्बन्ध एव वाच्यः । अत एव सम्बन्धानामनेकत्वेऽलिङ्गकत्वेऽपि च दण्ड्यादिशब्दानामेकवचनान्तत्वं नानालिङ्गकत्वं च । सम्बन्धिनां तथात्व एव ता. दृशप्रयोगदर्शनात् । तथाच मतुबर्थसन्बन्धे लिङ्गाद्यन्वयासम्भवात्तैरेवाऽऽक्षेपः सम्बन्धिनः, आख्यातार्थसंख्ययेव कर्नादेः। वस्तुतस्तु लिङ्गसङ्ख्याऽनन्वयित्वरूपासत्त्वभूतत्वमपि षष्ठयर्थादावार्थसिद्धम् । प्रत्ययार्थलिङ्गसङ्ख्यादेः प्रत्ययार्थ एवाऽन्वयायोगात् 'प्रत्ययानाम्-" इति व्यु. त्पत्तेश्च । तस्मान्नासत्त्वभूतसम्बन्धः षष्टीवाच्यः।। यत्तु-अनुयोगिरूपनिरूपकभानार्थ द्रव्ये शक्तिकल्पने गौरवमिति ; तदपि न । सम्बन्धप्रत्यक्षे हि यावदाश्रयभानापेक्षा, न शाब्दे, येन तच्छक्तिकल्पनागौरवं सम्भाव्येत । तस्मात् तत्र मतुबादेः शक्तौ न किञ्चिदू बाधकमिति । प्रपञ्चितं चैतदधिकमन्यत्र । ___ एवञ्चैकहायन्यादिपदानां सम्बन्धवाचकतायामनुशासनस्य तदुपष्टब्धानेकयुक्तीनां च सत्वात्तत्रैव शक्तिः सिद्धयेन्न सम्बन्धिनीत्यखण्डार्थः।। ___ *तथाचेति ॥ सामानाधिकरण्यस्य लक्षणयैवोपपादन इत्यर्थः ॥ *अरुणाधिकरणेति ॥ तथाहि "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति श्रूयते। तत्र किमरुणिमा वाक्यं भङ्क्त्वा प्रकरणे निवेशनीयः ? किं वा क्रीणातिना सम्बध्यते ? इति संशये, क्रीणातिना सम्बध्यमानस्तद्योगात् क्रयणकरणं स्याद् , न चाऽमूर्तस्य न युक्तमिति नास्य क्रयणसम्बन्ध इति पृथगेव प्रकरणे निवेशनीय इति पूर्वपक्षः। सिद्धान्तस्तु-सम्भवति सन्निहितपदार्थान्वये प्रकरणनिवेशानौचित्यात् । पिङ्गाक्ष्यादिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्येन पदद्वारा क्रीणात्यर्थेनाऽपि समन्वयलाभाद् वाक्यघटकत्वमेव तस्येति । स चाऽनुपपन्नः पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात् । किञ्च-पूर्वपक्षोऽप्यनुपपन्नः। पिङ्गाक्ष्यैकहायनीशब्दार्थसम्बन्धस्याप्यमूर्तत्वात् क्रीणातिकरणत्वाऽसम्भवेन क्रीणातिकरणत्वस्यैतद्वाक्यादलाभादरुणस्यैव वाक्यभेदशङ्कायां मूलशैथिल्याच । बहुव्रीह्योररुणपदस्य च लाक्षणिकद्रव्यविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वं, नारुणपदस्येत्यत्र विनिगमकाभावात् । अधिकमग्रे वक्ष्यते । .
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy