SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २५ धात्वर्थनिणयः। सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपञ्चितं विस्तरेण बृहद्वैयाकरणभूषणे ॥ *तिङः इति । बोधकतारूपा शक्तिस्तिक्ष्वेवेत्यभिप्रेत्येदम् । पदार्थ निरूप्य वाक्याथै निरूपयति-*फले इत्यादि । विक्लि - दर्पणः *उक्तरीत्येति । सम्बन्धिलक्षणाकल्पनेनेत्यर्थः । *प्रपञ्चितमिति* । प्रपञ्चस्तूक्तप्रायः । *भूषणे इति । प्रकृतस्थले समासशक्तिनिरूपणाऽवसरे चेत्यर्थः। ‘पदार्थ निरूप्या इत्यनेन पदार्थनिरूपणानन्तरं वाक्यार्थनिरूपणे तयोः सङ्गतिः सूच्यते। तत्फलं तु पूर्वापरग्रन्थैकवाक्यप्रतिपत्तिरेकप्रयोजनवती ज्ञानफलिका। केचित्तु उन्मत्तप्रलपितेत्याशङ्कानिदानासङ्गतत्वज्ञाननिरासः प्रयोजनमित्याहुः । सा चाऽनन्तर्याऽभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकधर्मरूपा षड्विधा । तदुक्तम् सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे पोढा सङ्गतिरिष्यते ॥ इति । तत्र प्रकृतसिद्धयनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वमुपोद्घातः । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः स्वरूपः सन् , इतरांशश्च ज्ञाने उपयोगी, एवमग्रेऽपि । स्मृतिकालावच्छिन्नोपेक्षानहतावच्छेदकधर्मवत्वं प्रसङ्गः । हेतुता-प्रसिद्धा। प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालावच्छिन्ना. वश्यवक्तव्यत्वमवसरः। निर्वाहकत्वम्-एककार्यजनकत्वं कारणतदवच्छेदकसाधारणप्रयोजकत्वरूपम् । 'एककार्य्यत्वम्'-एकस्य कार्यता साच जन्यता, जन्यज्ञानविषयत्वरूपा चेति । उदाहरणानि कानिचित्त्वत्रैव वक्ष्यन्ते। अन्यानि तु स्वयमूद्यानि । आक्षेपोदाहरणादीनां तु तन्त्रान्तरे सङ्गतित्वेन प्रसिद्धानामेष्वेवान्तर्भाव इति न तेषामाधिक्यसम्भावना। प्रकृते च पदार्थतत्संसर्गविशेषरूपवाक्यार्थयोः प्रसङ्गसङ्गतिः। तथाहि-निरूपितेषु पदार्थेषु प्रायशोऽसंसृष्टपदार्थाऽभावेन तत्संसर्गस्य सामान्यरूपेण स्मरणम् । ततः सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वाच्छिष्यस्य 'क एषां संसर्ग' इत्याकारा विशेषधर्मजिज्ञासा । ततस्तद्वोधनाय शिष्यस्य शब्दप्रयोगः। ततः शिष्यजिज्ञासाज्ञान गुरोः। ततो जिज्ञासाविषयज्ञाने इष्टसाधनताज्ञानात् कण्ठताल्वाद्यभिघातादिसम्पादनेन गुरोः शिष्यजिज्ञासानिवृत्तिफलकं विशेषसंसर्गरूपवाक्यार्थाभिधानमिति । संसर्गगतसामान्यस्योपेक्षाऽनर्हतावच्छेदकत्वात्तद्वत्वस्य तत्र सत्त्वाल्लक्षणसङ्गतिः । इत्थमन्यत्रापि लक्षणानि योज्यानि। परीक्षा द्वितस्य द्रव्यवाचित्वाभावेऽपि लक्षितद्रव्यमादाय श्रौतत्वस्योपपत्तेः । *उक्तरीत्या* लक्षणया अरुणाधिकरणेऽरुणादिपदानां गुणाभिधायकत्वे अमूर्त्तत्वात् क्रयणे करणतयाऽन्वयासम्भवात्प्रकरणे तस्य सन्निवेशः कार्य्य इति पूर्वपक्षः, अरुणादिपदानां द्रव्याभिधायकतेति सन्निहितपदार्थान्वयेन क्रीणात्यर्थ एवान्वय इत्युत्तरः पक्षः, उक्तसिद्धान्तेन तस्य लक्षणयोपपत्तेस्तद्विरोधः । भूषणे*-समासशक्तिनिरूपणावसरे । पदार्थ निरूप्येति । एतेन पदार्थवाक्यार्थयोरुपजीव्योपजीवकभावसङ्गतिर्ध्व ४ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy