SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेत्यादि फलं प्रति । तिङर्थः-कर्तृकर्मसंख्याकालाः । तत्र कर्तृकर्मणी फलव्यापारयोविशेषणे। संख्या-कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि; समानप्रत्ययोपात्तत्वात् । तथाच-आख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति कार्यकारणभावः फलितः । नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमान्तार्थ एवाऽन्वयादाख्यातार्थसंख्याप्रकारबोधे प्रथमान्तपदजन्योपस्थितिहेतुरिति . दर्पणः . ___ *विशेषणे इति । आधाराऽऽधेयभावसम्बन्धेन प्रकारावित्यर्थः । सङ्ख्याया आख्याताऽर्थकर्तृकर्माऽन्वयित्वे प्रयोजकमाह-*समानप्रत्ययोपात्तत्वादिति । एतेन समानऽभिधानश्रुतेर्वाक्याऽपेक्षया बलवत्त्वात् समानपदोपात्तान्वयित्वं विहाय प्रथमाऽन्तार्थेऽन्वयोऽनुचित इति व्यज्यते । एकप्रत्ययजन्योपस्थितिविषयत्वादिति तदर्थः। लडादीनां वाचकत्वकल्पे, आख्यातजन्योपस्थितिविषयत्वस्य कालेऽपि सत्वात्तत्र व्यभिचारवारणाय कर्तृकर्मविषयत्वेन तां विशिनष्टि-*तथाचेति । घट इत्यादावेकत्वादिसङ्ख्याप्रकारकबोधे व्यभिचारो मा भूदिति कार्य्यतावच्छेदककोटौ*आख्याताऽथेति । तदर्थकालप्रकारकबोधे तन्निरासाय-*सङ्ख्येति । स्वोक्तमाख्यातस्य कर्तकर्मार्थकत्वं दर्शयितुं प्रसङ्गान्न्यायमतं निराकरोति-नैयायिकाना मित्या. दिना*। *अन्वयादिति । एकपदोपात्तयोरेकार्थान्वयित्वस्य न्याय्यत्वादिति भावः । आख्यातार्थकालप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरनपेक्षणादाह-*सङ्खयेति । परीक्षा निता, सा निरूपणद्वारोहनीया । अथवा निरूपणयोरेवोपोद्धातसङ्गतिरनेनोच्यते । ति अर्थः-शक्यः । तिशक्यत्वेनानुगमनादेकवचनम् । कर्तृकर्मणोराख्यातवाच्यत्वं प्रागुक्तमपि दाक्य पुनरुच्यते । तथाच यदा कर्मणः कर्तृत्वविवक्षाः तदा सकर्मकस्यापिधातोरकर्मकतया ततो भावे लकारः; 'पच्यते तण्डुलेन' इत्यत्र भवति, तण्डुलपदाच्च तृतीया भवति । अन "कर्मवत्कर्मणा तुल्यक्रियः इत्यनेन कर्मत्वातिदेशे तण्डुलपदादू द्वितीयाया आपत्तिः, भावे लकारानापत्तिश्च । अस्मन्मते तु द्विलकारात् “व्यत्ययो बहुलंल्लिड्याशिष्य इति सूत्राल्ल इत्यस्यानुवृत्या लकारवाच्यस्यैव कर्तुः कर्मत्वातिदेशो नान्यस्येति नोक्तदोषः । भवन्मते तु कर्तुर्लकारवाच्यत्वाभावेवोक्तव्यवस्थाया असङ्गतिरिति। न च लवाच्यसङ्ख्याश्रयस्यैव तदतिदेश इति वाच्यम् ? "कर्मवत् इति सूत्रात्तादृशार्थस्यालाभेनातिरिक्तवचनान्तरस्यैव कर्त्तव्यत्वापत्या गौरवस्य स्पष्टत्वात् । किञ्च लक्षणायाः शक्यानुसन्धानपूर्वकत्वेन तत्कल्पने गौरवम् । अत एव निषादस्थपत्यधिकरणे तत्पुरुषे लक्षणाप्रसङ्गात् । कर्मधारयौ राजपुरोहितौ सायुज्यकामौ यजेतामित्यत्रापि। राज्ञः पुरोहिताविति न तत्पुरुषोः लक्षणापत्तेः, किन्तु द्वन्द्वसमास एवायमिति च सिद्धान्तितम् । तत्र-कर्त्तादिषु मध्ये । *समानप्रत्ययोपात्तत्वादिति । एवं च समानाभिधानश्रुत्या तत्रवान्वयस्यौचित्यादिति भावः । *तथाचपूर्वोक्तव्यवस्थासिद्धौ च। • *प्रथमान्तेति। तन्मते कृतेराख्यातार्थतया तत्र सङ्घयाया अन्वयस्यानुचित
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy