SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ... ' धात्वर्थनिर्णयः। कार्यकारणभावो वाच्यः । सोऽपि 'चन्द्र इव मुखं दृश्यते, 'देवदत्तो भुक्त्वा व्रजति' इत्यादौ चन्द्रक्त्वाऽर्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम् । इदमपि कर्तृकर्मणोराख्या दर्पणः *इतराविशेषणत्वेति । प्रथमान्तार्थेतरविशेषणत्वाघटित इत्यर्थः । तथाचेतरविशेषणताऽनापन्नार्थविषयकोपस्थितिः कारणमित्यर्थः । एवञ्च चन्द्रभोजनादीनां प्रथमान्तार्थत्वेऽपि इवार्थसादृश्यव्रजनादिविशेषणत्वान्न व्यभिचार इति भावः । *घटित इति। तदविषयकप्रतीत्यविषयः स इत्यविषय इत्यर्थः । तदवच्छिन्नावच्छेदकताककारणताग्रहविषय इति यावत् । इतराविशेषणत्वं चेतरविशेषणत्वतात्पयाविषयत्वम् । नातश्चैत्र इव पचतीत्यादौ खले कपोतन्यायेन बोधे चैत्रीयं सादृश्यमित्यवान्तरबोधाऽभावेन चैत्रस्येतरनिरूपितप्रकारताशून्यत्वरूपेतराऽविशेषणत्वसत्त्वेऽपि क्षतिः अविशेषणत्वेऽपि विशेषणत्वतात्पर्य्यविषयत्वसत्त्वात्। तथाचाऽऽख्यातार्थसङ्ख्याप्रकारतानिरूपितविशेष्यतासन्बन्धेन शाब्दबुद्धि प्रति इतरविशेषणत्वतात्पयांविषयार्थवृत्तिविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिहेतुरिति पर्यवसितोऽर्थः । 'चैत्रेण सुप्यते' इत्यादिभावाऽख्यातस्थले, 'चैत्रकर्त्तकः स्वापः' इत्यादिबोधाद्यथोक्तविशेषणकधात्वर्थस्वापे तदनन्वयादव्यभिचारपरिहाराय प्रथमान्तति पदविशेषणम् । यद्येवमपि 'चैत्र एव पचति न मैत्र इत्यादावन्ययोगव्यवच्छेदरूपैवकारपदाथैकदेशेऽन्यत्वे चैत्रस्य विशेषणत्वात् तत्र संख्याऽऽन्वयाऽनुपपत्तिरिति विभाव्यते, तदा प्रथमान्तार्थो विशेषणत्वमात्रतात्पर्याविषयत्वेन विशेषणीयः । अवशिष्टांशस्यापि निवेशे प्रयोजनाऽभावादुक्तस्थले च चैत्रस्य मुख्यविशेष्यत्वविशेषणत्वाभ्यां तात्पर्यविषयत्वान्नसङ्ख्याऽन्वयाऽनुपपत्तिरिति तन्मतनिष्कर्षः। . . . ___ *अतिगौरवमिति* । अन्यलभ्यकृतो. शक्तिकल्पने सन्यान्वयबोधहेतूपस्थिती विभिन्नपदजन्यत्वनिवेश एव गौरवम् । प्रथमान्तपदार्थस्य विशेषणत्वमात्रतात्पर्या . परीक्षा स्वात् । *सोऽपि*-तादृशकार्यकारणभावोऽपि । अस्य घटित इत्यत्रान्वयः। ननु सति सम्भवे उपात्तधर्मेणैव सादृश्यं वक्तव्यम् , अन्यथा गुरुत्वमिव रूपं दृश्यत इति प्रयोगापत्तिः । एवञ्चात्र दर्शनकर्मत्वेन सादृश्यबोधनाय तत्राप्यन्वये इष्टापत्तिरत आह*देवदत्त इति । ननु प्रथमान्तेत्यस्य प्रथमान्तत्वेनानुसन्धीयमान इत्यर्थो वाच्यः । अन्यथा 'मैत्रं गच्छति चैत्र, इत्यत्र मैत्रपदस्य प्रथमान्तत्वभ्रमे चैत्रपदस्य द्वितीयान्तत्वानुसन्धाने मैत्रे सङ्ख्यान्वयो न स्यात् , एवं च 'यथा वारि तिष्ठति' इत्यत्र वारि पदस्य न नियमेन प्रथमान्तत्वग्रहापेक्षा तथा तान्तस्यापीति नायं दोष इत्यत आह*इत्यादाविति । आदिना*-भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् इत्यस्य संग्रहः । अत्रापिशब्दस्य प्रथमान्तत्वानुसन्धानाभावे “सपूर्वायाः प्रथमाया विभाषा" इत्यस्यानुपस्थितौ साधुत्वप्रतिपत्यभावेन सहृदयानां ततः शाब्दबोधो न स्यात् । *चन्द्रक्त्वार्थयोरिति । अपिशब्दार्थे चेति शेषः । *इतराविशेषणत्वघटित इति । इतराविशेषणत्वमित्यस्येतरविशेषणत्वतात्पर्य्याविषयत्वमित्यर्थः। तेन शाब्दबोधात्पूर्वमितरविशेषणत्वाभावेऽपि न क्षतिः । *अतिगौरवमिति । एवं पदत्रय
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy