SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - २८ तार्थत्वे मानमिति स्पष्टं भूषणे ॥ दर्पणः विषयत्वेन निवेशे त्वतिगौरवमित्यर्थः । *इदमपीति । उपदर्शितकार्यकारणभावे दर्शितलाघवमपीत्यर्थः । यद्यपि तन्मते भावनान्वयिनी सङ्ख्यान्वयनियमादाख्यातेन भावनाऽविषयकसङ्खयान्वयबोधस्य क्वाप्यजननाद्भावनान्वयबुद्धित्वस्य सङ्ख्यान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसामग्या फले जननीये व्यापकधर्मावच्छिन्नसामग्या अपेक्षणाद्विशेषणत्वमात्र तात्पर्याऽविषयत्वविशेषणविशिष्टप्रथमान्तार्थोपस्थितिरूपायास्तस्यास्तत्राऽभावादेवोक्तस्थले व्यभिचाराप्रसक्तेर्न तद्व्यावृत्तये सङ्ख्यान्वयकारणतावच्छेदककोटा वुक्तविशेषण प्रवेशाऽवसरः, तथाऽपि कृतिशक्तिवादिमते उक्तस्थले तदापत्तिवा रणाय भावनान्वयबोधकारणतावच्छेदकको टावेवोक्तविशेषण विवरणप्रयुक्तगौरवम् । अस्मन्मते तु प्रथमान्तपदार्थस्य आख्यातार्थे विशेषणतयैवान्वयेन चन्द्रादेरेकत्र विशेपणतयाऽन्वितस्य नैराकाङ्क्षयेणाऽपरत्र विशेषणतयाऽन्वयाऽयोगादुक्तव्यभिचाराभावेन तन्निवारकविशेषणोपादानप्रयुक्तगौरवमितीदमेवाभिप्रेत्योक्तम् - *इदमपीति । अधिकमन्यन्त्रानुसन्धेयम् । अनाऽऽहुर्नव्याः - लाघवोपबृंहितोक्तयुक्तिकदम्बेनाऽऽख्यातस्य धर्मवाचकत्वसिद्धावुत्तरकालकल्प्यतादृशकार्य्यकारणभावप्रयुक्तगौरवम्, निषादस्थपत्यधिकरणन्यायेनाकिंञ्चित्करम् । फलमुखत्वात् । किञ्च चन्द्राद्युपमाने आख्यातार्थसङ्ख्याद्यन्वयोपगम आवश्यकः । तत्र तदन्वयाऽनुपगमे सादृश्यप्रयोजकधर्माऽलाभेन वाक्यस्यापरिपुष्टार्थतापत्तेः । क्त्वान्तार्थ भोजनादौ तु सङ्ख्यादीनामयोग्यत्वादेवानन्वयेनाऽनतिप्रसङ्गात् । एवञ्च नास्मन्मते दोषलेशोऽपीति । कर्त्तृकर्मणोः सङ्ख्यायाश्च विशेषणतां परीक्षा घटितत्वादपि तथेति बोध्यम् । इदमपि उक्तरीत्या गौरवमपि । 1 अत्र नैयायिकाः- चैत्रः पचतीत्यादौ कृतौ शक्तिः । रथो गच्छतीत्यादौ व्यापारे लक्षणा । शक्त्यन्तरकल्पनापेक्षया शक्यसम्बन्धरूपलक्षणायाः क्तृप्तत्वात् । नच लक्ष्यार्थे कथं वर्त्तमानत्वस्यान्वयो युगपद्रवृत्तिद्वयानुपगमादिति वाच्यम् ? बोध्यतावच्छेदकधर्मभेदाल्लट् त्वेन वर्त्तमानत्वे शक्तिर्लत्वेन लक्षणेति तत्तत्प्रकारकशाब्दबोधे वृत्तिज्ञानजन्यतत्तदुपस्थितत्वेन हेतुत्वाच्च, न लक्षणाज्ञानस्य कारणत्वकल्पनाप्रयुक्तं गौवमिति वदन्ति । 1 इदमप्युक्तरीत्या गौरवापत्या निरस्तम् । एवं चाख्यातार्थसङ्ख्याप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति इतरविशेषणत्वतात्पर्याविषयार्थवृत्तिविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिर्हेतुरिति विषयनिष्ठप्रत्यासत्या कार्य्यकारभावो द्रष्टव्यः । 'चैत्रेण स्थीयते, इत्यादिभावाख्यातस्थले चैत्रकर्तृका स्थितिरित्यादिबोधात् । स्थितेरितरविशेषणत्वतात्पर्य्याविषयतया तत्र सङ्ख्यान्वयवारणाय प्रथमान्तेति पदस्य विशेषणम्, यदि च भावनान्वयिनि सङ्ख्याया अन्वयनियमाद्भावनान्वयबुद्धित्वस्य संख्यान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसमग्रथा फले जननीये व्यापकधर्मावच्छिन्नसामग्रीसहकारिणीति तन्मते प्रसिद्धेर्न चन्द्र इवेत्यादौ च
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy