________________
धात्वर्थनिर्णयः।
कालस्तु व्यापार विशेषणम् । तथा हि-"वर्तमाने लट" ( पा०सू० ३।२।१२३) इत्यत्राऽधिकाराद् धातोरिति लब्धम् । तञ्च धात्वर्थ वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः। न च सङ्ख्यावत् कर्तृकर्मणोरेवान्वयः शङ्कयः। अतीतभावनाके कर्तरि 'पचति' इत्यापत्तः । 'अपाक्षीत्' इत्यनापत्तेश्च । पाकानारम्भदशायां कर्तृसत्त्वे 'पक्ष्यति' इत्यनापत्तेश्च । नापि फले तदन्वयः, फलाऽनुत्प
दर्पणः व्यवस्थाप्य कालस्यापि तां प्रतिपादयति-*कालस्त्वित्यादिना । *व्यापारे इति । धात्वर्थव्यापारे इत्यर्थः ।
नन्वाख्यातस्य कालशक्तिपरिच्छेदकेषु “वर्तमाने लट्" (पासू०३।२।१३ )इत्यादिषु व्यापारवाचकपदानुपादानात् कथं कालस्य धात्वर्थव्यापारविशेषणतेत्यतस्तत्सू
प्रामाण्येनैव तां साधयति-*तथाहीति*। *तच्च*-धातुपदं चेत्यर्थः । *धात्वर्थमि. ति* । फलव्यापारोभयात्मकमित्यर्थः। सत्तायामित्याद्यर्थनिर्देशाद् भ्वादिसूत्रप्रामाण्याच्चेति भावः । *वदत्*-बोधयत् । सन् ब्राह्मण इतिवच्छता। *प्राधान्यादू* । धातुजन्यबोधे विशेष्यतया भासमानत्वादित्यर्थः । व्यापारमेवेत्येवकारेण फलव्यवच्छेदः । प्राधान्यादित्युक्त्या यन्मते कर्माऽऽख्याते फलस्य प्राधान्यं तन्मते फल एवान्वय इति ध्वनितम् । *ग्राहयतीति । आख्यातार्थकालविशेष्यतया बोधयतीत्यर्थः। "गुणानां च परार्थत्वाद्” इति न्यायात् , प्रत्ययार्थस्य साक्षात्प्रकृतिजन्यबोधवि. शेष्याऽन्वयित्वनियमाच्चेति भावः । *कर्तकर्मणोरिति । समानप्रत्ययोपात्तत्वप्रत्यासत्तेरिति भावः । *पवतीत्यापत्तेरिति । कर्तुविद्यमानत्वादिति भावः। एवमग्रेऽपि*नापि फल इति*।
परीक्षा न्द्रादौ सङ्ख्यान्वयापत्तिरिति विभाव्यते, तदा चैत्र इव पचतीत्यादावेवकारार्थेऽन्यत्वे चैत्रस्यान्वयोभवति । भवन्मते तु तस्या अन्यत्वे विशेषणत्वतात्पर्य्यविषयतया सङ्ख्यान्वयानापत्तिः । एतदुपपत्तये भावान्वयबोधसामग्रीकोटावितरविशेषणत्वतात्पर्य्यविषयत्वस्य प्रवेशे तु ( (१)"चैत्र एव पचति, इत्यत्र मुख्यविशेष्यतयाऽपि प्रथमान्तार्थस्य भाने तात्पर्य्याददोष इत्युक्तौ" ) तत्रातिगौरवं बोध्यम् । अस्मन्मते तु प्रथमा. न्तार्थस्याख्यातार्थे कर्तरि कर्मणि वा विशेषणतया 'चन्द्र इव मुखं दृश्यते' इत्यादौ चन्द्रादेरिवार्थे विशेषणतया एकविशेषणतयोपस्थितस्यान्यत्र विशेषणतया भावनाभानेननोक्तदोष इति बोध्यम् ।
उक्तेषु तिङर्थेषु कादीनां विशेषणत्वं व्यवस्थाप्य कालस्यापि विशेषणत्वं व्यवस्थापयति-*कालस्त्विति । *व्यापारमेवेति । यद्यपि स्वस्वरूपस्यार्थविशिष्टस्य ग्रहणमिति प्राधान्यादित्यसङ्गतम्। तथाप्यर्थविशिष्टशब्दस्येव शब्दविशिष्टार्थस्यापि क्वचिद्ग्रहणं भवतीति प्राधान्यं तस्य द्रष्टव्यम् । एकप्रत्ययोपात्तत्वेनाशय निराचप्टे-*नचेति* । *सङ्ख्यावदिति । सङ्ख्याया यथा कर्तृकर्मविशेषणत्वं तद्वदित्यर्थः ।
(१) चिह्नाङ्कितः पाठः पुस्तकान्तरे नास्ति ।