________________
३०
दर्पणपरीक्षासहिते भूषणसारे -
तिदशायां व्यापारसत्त्वे, 'पचति' इत्यनापत्तेः, पक्ष्यति' इत्यापतेश्चेत्यवधेयम् ।
न चामवातजडीकृतकलेवरस्योत्थानाऽनुकूलयत्नसत्त्वाद् 'उत्तिष्ठति' इति प्रयोगाऽऽपत्तिः । परयत्नस्याज्ञानादप्रयोगात् । किञ्चि
दर्पण:
1
केचित्तु — फलव्यापारयोर्धातोः पृथक् शक्तौ तयोरुद्देश्यविधेयभावेनाऽन्वयाssपत्तिः । पृथगुपस्थितयोस्तथाऽन्वयस्यौत्सर्गिकत्वात् । तत्तद्धातुजन्यतादृशबोधस्य तथाऽन्वयबोधे प्रतिबन्धकताकल्पने तु गौरवम् । तस्मात् फलाऽवच्छिन्नव्यापारे व्यापारावच्छिन्न फले च धातूनां शक्तिः । कर्त्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तदूबोधे नियामकः । गौरवं च प्रामाणिकत्वान्न दोषाय । इत्थञ्च कर्त्राssख्याते, व्यापारख्य प्राधान्यम्, कर्माख्याते तु फलस्य । यदा यस्य प्राधान्यं तदा तस्मिन् कालाऽन्वयः । सूत्रस्थधातुपदादुभयोरपि प्राधान्येनोपस्थितत्वान्नोक्तविषयाऽनवकाशः । फलानुत्पत्तिदशायामारब्धे पाके फले वर्त्तमानत्वारोपाद्वा । पच्यते इत्यस्योपपत्तिरेकाsarasपि समूहाssरोपादधिश्रयणकाले पचतीति प्रयोगवत् आरोपे च प्रतीतिरेव मानम् । व्यापारविगमे फलसत्त्वे 'अपाचि देवदत्तेन' इत्यादिप्रयोगास्तु भूतत्वस्योत्पतिघटितत्वादित्याहुः ।
तदपरे न क्षमन्ते । पृथगुपस्थितयोस्तथान्वयबोधाभ्युपगमे नानार्थहर्य्यादिपदोपस्थितानामश्वसूर्यादीनामप्युद्देश्यविधेयभावापत्तिरतो विभिन्नपदजन्योपस्थितेरेव तन्त्रता तत्राऽनुसर्त्तव्या । तद्भावाच्च प्रकृते कथं तदन्वयबोधाऽऽपादनम् । तादृशफलव्यापारयोर्धातुशक्तौ मानाभावो गौरवं च । विशिष्टधर्मस्य शक्यतावच्छेदकत्वे उक्तप्रयोगाणाम् आरोपेणोपपादनं त्वगतिकगतिरिति स्पष्टमेव विवेकिनाम् । एतदनुरोधेन भृतत्वस्योत्पत्तिघटितत्वाऽभ्युपगमे परमताऽनुसृतिरपीति ।
व्यापारे आख्यातार्थ कालान्वये दूषणमाशङ्कय निराचष्टे-नचेति । *यत्नसत्त्वादिति । यत्नरूपव्यापारस्य वर्त्तमानत्वेन विषयाबाधात । मम तु तदानीं फलानुत्पत्त्या न तादृशप्रयोगाऽऽपत्तिरित्यर्थः । अप्रयोगादिति । ननु परयत्नस्य विजातीयमनः संयोगाश्रयसमवायरूपहेत्वभावादप्रत्यक्षत्वेऽपि चेष्टादिपक्षकेण तल्लिङ्गकेन वानुमानेन तदवगतावुत्तिष्ठतीति प्रयोगाऽऽपत्तिर्दुः समाधेयैवेत्याशङ्कयेष्टापत्त्या परिहरति—* किञ्चिच्चेष्टादिनेति यत्किञ्चिच्छरीरावयवावच्छिन्नक्रिययेत्यर्थः ।
1
परीक्षा
व्यापारे कालान्वये दोषः ; फले तदन्वये तु नेत्याशङ्कां निरस्यति—*नचेति । *यत्नसत्वादिति । तस्यापि व्यापारविशेषणत्वात् फलमुत्थानरूपं तु नास्तीति नापत्तिः । *परयत्नस्येति । स्वीययत्ने मनः संयुक्तसमवायरूपसनिकर्ष सत्त्वादहं करोमीति प्रत्यक्षं सम्भवति । परयत्ने तु स नास्तीति भावः । ननु सन्निकर्षाभावेन प्रत्यक्षाभावेऽपि शरीरावयवावच्छिन्ना क्रियाविशेषरूपा या चेष्टा तल्लिङ्गकयत्नानुमित्यनन्तरं तादृशप्रयोगापत्तिः प्राप्नोतीत्यत आह-*किञ्चिदिति । अयं देवदत्तः उत्थानानुकूलयत्नवान् ; विलक्षणचेष्टावत्त्वात् । चेष्टा यदि यत्रा -