________________
- धात्वर्थनिर्णयः। च्चेष्टादिनातदवगतौ च 'अयमुत्तिष्ठति,(२)शक्यभावात् ; फलन्तु न जायते; इति लोकप्रतीतेरिष्टत्वात् । एवञ्च तिर्थो विशेषणमेव, भावनैव प्रधानम् ।
दर्पणः *तदवगतौ-यत्नानुगतौ । अनुमानप्रयोगश्चैवम्-देवदत्तीयचेष्टा प्रयत्नजन्या । चेष्टात्वात् । मच्चेष्टावत् । अथवा-अयमुत्थानाऽनुकूलयत्नवान् । विजातीयचेष्टावत्त्वात् ,अहमिवेति । चेष्टाप्रयत्नयोः कार्यकारणभावश्च प्रकृतेऽनुकूलस्तर्कः । स्वाश्रयावच्छेद्यत्वस्य हेतुतावच्छेदकसम्बन्धत्वान्न स्वरूपासिद्धिरिति।
परे तूक्तापत्तिमन्यथैव परिहरन्ति । तथाहि-आमवातजडीकृतकलेवरप्रयत्नस्योत्थानोद्देश्यकत्वेऽपि तदजनकत्वेऽपि तदजनकत्वानोक्तप्रयोगापत्तिः । अत एव 'उत्थानाय यतते' इत्येव तत्र प्रयोगः। यागपाकाद्युद्देश्यककुण्डादिनिर्माणतण्डुलक्रयणादिदशायां, यजति पचति इत्यादिप्रयोगवारणाय स्वरूपसम्बन्धरूपप्रयोजकताविशेषस्यैव सम्बन्धताया अभ्युपेयत्वादिति ।
तञ्चिन्त्यम् । तदुद्देश्यकत्वं हि तदिच्छाऽधीनेच्छाविषयत्वम् । उपायेच्छायाः फलेच्छाधीनत्वात् । उपायत्वं च प्रयोजकत्वमेव । कथमन्यथा तत्रेच्छति, प्रकृते यजतीत्यादिप्रयोगो दुर्वार एव । तस्मात् साक्षाजन्यजनकभाव एव फलव्यापारयोः सम्बन्ध इत्येवाभ्युपेयम् । तावतैवोक्तप्रयोगवारणात् । प्रकृते शक्तिरूपसहकारिकारणाभावेन तदनुत्पत्तावपि तदीययत्ने साक्षाजनकत्वस्य निराबाधत्वेनोत्तिष्ठतीतिप्रयोगस्यैवेष्टत्वात्। प्रकृतधात्वर्थतयाऽवगते तस्मिन् साध्यत्वस्यैव सत्त्वेनोद्देश्यत्वस्य तदानीमसम्भवाच्च । एतदभिप्रेत्यैव सारकृता-'उत्थानानुकूलयत्नसत्त्वे' इत्युक्तम् । अत एव पाकानुकूलप्रकृतधात्वर्थयत्नसत्वे पचतीत्येव प्रयोगोऽन्यदातु 'पाकाय यतते' इति। __ वस्ततस्तु कृतिरूपव्यापारमात्रस्य धात्वर्थत्वविवक्षायामुत्तिष्ठतीतिप्रयोगः । प्रयत्नसामर्थ्यचेष्टादिघटितस्य तस्य समुदायस्य तद्विवक्षायान्तु नेति सारकाराशयः। अत एव तदोत्थानाय यतते इति प्रयोगोऽपि सूपपाद इति बोध्यम् ।
उपसंहरति-*एवञ्चेति । विशेषणमेवेत्येवकारेण तिर्थस्य विशेष्यत्वव्यवच्छेदः। *भावनैवेति । धात्वर्थभावनैवेत्यर्थः । अत्राप्येवशब्देन फलस्य तिर्थक देश्च व्यव.
परीक्षा भावेऽपि स्यात् , तदा यत्नजन्या न स्यादित्यनुकूलस्तर्कः । *शक्त्यभावादिति* । एवं चैकस्य यत्नाख्यस्य कारणस्य सद्भावेऽपि शक्तिरूपसहकारिकारणाभावान्न फलं जायत इत्यस्योपपत्तिः । न च व्यापारे धात्वर्थफलोद्देश्यकत्वसत्वेऽपि जनकत्वरूपसम्बन्धाभावेन नोत्तिष्ठतीति प्रयोगस्य प्रसङ्ग इति वाच्यम् । शक्त्यभावनिर्णयात्प्राक् स्वरूपयोग्यतालक्षणजनकत्वसत्त्वात् तादृशप्रयोगापत्तेदुर्वारत्वात् । अत एवं यत्र फूत्कारवह्निप्रज्वलनाधिश्रयणकालेऽपि पचतीति प्रयोगस्तदास्थितव्यापारे कलवैशिष्ट्याभावेऽपि स्वरूपयोग्यतायाः सत्वात्पचतीति प्रयोगः।
अपरे त्वाः-फलानुकूलयत्नरूपव्यापारस्य सत्वात्ताशप्रयोगापत्तिरित्याशकाभिप्रायः । शक्तिघटितसमुदायरूपव्यापारकदम्बाभावान्न तादृशः प्रयोग इति समाधानग्रन्थतात्पर्य्यार्थः । अत एव "उत्थानाय यतते" इति प्रयोगस्योपपत्तिरि