SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे___यद्यपि प्रकृतिप्रत्ययार्थयोःप्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथाऽपि "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि" इति (नि अ०१ख०१) दर्पणः च्छेदः । 'प्रकृतिप्रत्ययार्थयोः इति व्युत्पत्तिविरोधमाशते-*यद्यपीति । *अन्यत्र*पक्तत्यादौ । *दृष्टमिति । तथाच प्रकृत्यर्थभावनायाः प्राधान्योपगमे तद्विरोध इति भावः । *भावप्रधानमिति । नामाऽऽख्यातोपसर्गनिपातभेदेनोद्दिष्टं चतुर्विधं पदं प्रकल्प्य नामाऽऽख्यातलक्षणप्रतिपादके इमे वाक्ये । अत्राऽऽख्यातं भावप्रधानमिति, योजना । यथाश्रुते यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । ___ इत्यभियुक्तोक्तः। शाब्दबोधे प्रानिर्दिष्टस्यैवोद्देश्यतया विवक्षितार्थाऽलाभात् । अत एव वृद्धिशब्दस्य प्रानिर्देशो मङ्गलार्थ.' इत्याऽऽकरोक्तं सङ्गच्छते। एवमग्रेऽपि । आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकस्वरूपलक्षणे तात्पर्यावधारणाच्च लक्षणवाक्याच्छब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः । लक्ष्यताऽवच्छेदकं च तिङन्तत्वरूपाख्यातत्वम् । “आख्यातमाख्यातेन" (वा० ग०सू० २।११७२) इत्यादौ, तत्रैवाऽऽख्यातपदस्य शक्त्यवधारणात्। 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य, तत्र 'भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च । एतेन तिङः प्रधानभावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्रत्युक्ताः। __ तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादनाऽसम्भवाच्चाभावत्वं निष्पाद्यत्वम् । नातः कर्माऽऽख्यातस्य फलविशेष्यकबोधकतावादिमते तत्राsप्रसक्तिः । प्रधानप्रतिपादकत्वस्य नाममात्रे, भावप्रतिपादकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणाय विशिष्टमुपात्तम् । प्राधान्यं चोपस्थितत्वात् स्ववाचकप्रकृतिकप्रत्ययार्थनिरूपितमेव । नातः 'काष्टैः पाकः' इत्यादौ प्रत्ययार्थकरणनिष्ठप्रकारतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः । नवौत्सर्गिकैकवचनान्तभावविहिततव्याद्यन्तनाम्नि सः । तथाच तिजोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत्पर्य्यवस्यति । इतराविशेषणत्वरूपं तु न तत्। पचतिभवतीत्यादिवाक्यघटकपच्याद्यर्थक्रियायां तदसत्त्वेन पचतीत्याख्यातेऽव्याप्तेः। क्त्वः पूर्वकालार्थकत्वस्य निराकरिष्यमाणत्वानोक्तलक्षणस्यालक्ष्येऽतिप्रसङ्गः । “कृदभिहितो भावो द्रव्यवत् प्रकाशते”इति भाष्येण पाक इत्यादाविव तस्य सत्त्वाऽतिदेशेन साध्यत्वरूपभावत्वाऽभावादेव नातिप्रसङ्ग इति तु न सत् । यतः साधुत्वान्वाख्यायकव्याकरणस्मृत्या यत्कृदर्थभावे लिङ्गाद्यन्वयोऽनुभवसिद्धस्तस्मिन्नेव तदतिदिश्यते । यथा पाक इत्यादौ घमर्थभावे । क्त्वार्थे तु लिङ्गाद्यननुभवेन तत्र तदतिदेशविषयत्वस्यान्याय्यत्वात् । अव्ययकृत्वेन तस्य धात्वर्थानुवादकत्वस्य वक्ष्यमाणत्वाच्च । तथाच भावप्रधानकत्वं तिङर्थनिष्ठप्रकारतानिरूपितविशेष्यताशालिभावप्रतिपा परीक्षा त्याहुः । *एवं च*-कालस्यापि विशेषणत्वसिद्धौ च । *भावनैवेति । धात्वर्थभा. वनैवेत्यर्थः । एवकारेण प्रत्ययार्थस्य प्राधान्य व्यवच्छिद्यते ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy