________________
धात्वर्थनिर्णयः ।
३३
निरुक्ताद् । भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याश्च धात्वर्थ
दर्पणः
दकत्वं पर्यवस्यति । एतेन पचतिभवतीत्यादिवाक्यघटकाख्यात संग्रहाय क्वचित् क्रियान्तरनिष्ठविशेष्यता निरूपितविशेषणत्वाभाववत्त्वं तत् । पच्याद्यर्थक्रियाया भवत्यर्थविशेषणत्वेऽपि क्वचित्तदसमभिव्याहारे विशेष्यतयैव भानान्न तत्रातिप्रसङ्ग इत्युक्तं निरस्तम् । उक्तापेक्षया अभावघटितत्वेनास्य गुरुत्वात् । अग्रिमलक्षणे प्राधान्यस्य विशेष्यत्वरूपस्यैव वक्ष्यमाणतयाऽत्रापि तस्यैव न्याय्यत्वात् । तत्र "भावप्रधानम्” इति भाष्येण मदुक्तार्थस्यैव लाभाच्च ॥
*सत्त्वप्रधानानीति । अत्रापि पूर्ववदुद्देश्य विधेयभावकल्पना । लक्ष्यतावच्छेदकं च कृदाद्यन्तप्रकृतिकविभक्त्यन्तत्वरूपं नामत्वम् । प्रकृतिः, प्रत्ययो विभक्तिरित्येतनाम, संज्ञा, सत्ता, द्रव्यं, लिङ्ग, संख्या, च नामार्थ इतितद्भाष्यात् । “क्रियाप्रधानमाख्यातं, सत्त्वप्रधानं नाम । यतः क्रियां पृष्टस्तिङाचष्टे - किं करोति, पचतीति । द्रव्यं पृष्टः कृताऽऽचष्टे कतरो देवदत्तो, यः पाचक" इति “प्रशंसायाम्" इति सूत्रस्थमहाभाष्याच्च । तत्र कृतेत्यस्य तत्प्रकृतिकसुबन्तेनेत्यर्थः । कृता द्रव्याऽभिधानेऽपि “न केवला” इतिन्यायेन केवलस्य प्रयोगाऽनर्हत्वात्, निरुक्तभाष्यस्थविभक्तिपदस्वारस्याच्च । व्युत्पत्तिपक्षमवलम्ब्य चेदम् । नातोऽव्युत्पत्तिपक्षे नामाऽऽदिष्वतिप्रसङ्गः ।
लक्षणमाह-*सत्त्वप्रधानानीति । सत्त्वं द्रव्यं वक्ष्यमाणलक्षणं तत्प्रधानं यत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकार तानिरूपितविशेष्यताशाल्यर्थप्रतिपादकत्वं नामलक्षणमित्यर्थः । विशेष्याऽर्थकत्वस्य निपाताऽऽख्यातादावतिप्रसक्तत्वात् तद्वारणाय प्रका रतानिरूपितत्वान्तं विशेषणम् । व्यक्तिबोधस्य धर्मविषयकत्वनियमेन जातिप्रकारता निरूपितत्वस्यातिप्रसङ्गाऽवारकत्वात्तदनुपादानम् । लक्ष्यतावच्छेदकाऽनाक्रान्तेषु यादृच्छिकेष्वतिप्रसङ्गस्तु लक्षणे तद्व्यतिरिक्तत्वविशेषणेनैव परिहरणीयः । एवं धात्वर्थाsनुवादकप्रत्ययान्तेष्वतिप्रसङ्गोऽपि लक्ष्यतावच्छेदकसंकोचेनैव परिहार्यः । तत्र नामत्वव्यवहारोऽपि स्वाद्यन्तत्वनिबन्धनो भाक्त इति तद्भावः । उपसर्गादिलक्षणं तु वक्ष्यते । *भूवादीति । इत्थं हि तत्र भाष्यम् - " का तर्हीयं वाचो युक्तिः पचति भवति त्वं परीक्षा
*अन्यत्र*—पक्ता गन्तेत्यादौ कृदन्ते । *निरुक्तेति । तत्र हि — “ चत्वार्य्याहुः पदजातानि नामाख्यातोपसर्गनिपाताः । सत्त्वप्रधानं नाम, भावप्रधानमाख्यातम्” इत्युक्तम् । आख्यातम्भावप्रधानमित्युद्देश्यविधेयभावः । आख्यातं तिङन्तम्, न तु तिङ्मात्रम् । अत एव तन्निरुक्तभाष्ये- “भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्यः तत्र भावः प्रधानम्" इत्युक्तम् । एतेन भावना पर पर्य्याय भावशब्देन आख्यातार्थकृतिरेवाभिधीयते । तस्याश्च प्रथमान्तपदासमभिव्याहारे प्राधान्यमस्त्येवेति कृतेराख्यातवाच्यत्वेऽपि न निरुक्तविरोध इति नैयायिकानुसारिमतं निरस्तम् । कारकस्याख्यातवाच्यत्वबोधकनिरुक्तभाष्यविरोधात् । भावप्रधानमित्यत्र भावपदं धात्वर्थफलव्यापारोभयपरम् । तेन न कर्माख्यातेऽव्याप्तिः । प्राधान्यञ्च-उपस्थितस्ववाचकप्रकृतिकप्रत्ययार्थनिरूपितमेव । तेन, 'काष्ठः पाकः, इत्यादौ धात्वर्थस्य तृतीयान्तार्थनिरूपित
५ दु० प०