SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३४ दर्पणपरीक्षासहिते भूषणसारेभावनाप्राधान्यमध्यवसीयते। दर्पणः पचसि भवसि, पक्ष्यति भवतीति । सैषा वाचोयुक्तिः। पचादिक्रिया भवतिक्रियायाः कर्यो भवन्ति' इति । तेन चाऽऽहत्यैव पचाद्यर्थक्रियाकर्त्तकभवनक्रियायाः प्राधान्यं प्रतिपाद्यते । धात्वर्थक्रियाया आख्यातार्थविशेषणत्वाभ्युपगमे तु स्वस्वार्थविरुद्धत्वेन पदार्थान्तरे विशेषणतयाऽन्वये नैराकाङ्क्षयेण भवत्यर्थक्रियायामाख्यातार्थविशेषणपचादिक्रियाणामन्वयाऽसम्भवेन तद्विरोधोऽप्रतिरोध एव स्यादिति भावः । *सूत्रादिन इत्यादिना “प्रशंसायाम्" (पासू० २।१।६६ ) इति सूत्रपरिग्रहः। ननु 'भावप्रधानमाख्यातम्' इति निरुक्तेन तिङन्ते भावनाऽपरपर्यायभावप्राधान्य प्रतिपाद्यते । सा च नैयायिकमते काख्याते कर्त्तत्वं कृतिः, कर्माख्याते कर्मत्वं फलं, तन्निरूपिताऽऽश्रयत्वं वा। तैः सङ्ख्याकालातिरिक्ताऽऽख्यातार्थस्य भावनापदव्यपदेश्यत्वोपगमात् । भावाऽऽख्याते तु धात्वर्थव्यापार एवाऽनुवादकत्वात् तदाख्यातस्य । प्रधान्यं च तस्याः प्रकृत्यर्थापेक्षम् । समानप्रत्ययोपात्तत्वप्रत्यासत्त्या फलमात्रं धात्वर्थ इति वदतांमीमांसकानामेतदपि भाष्यं मूलम् । तत्र लडाद्यर्थकालान्वयोपगमे तु तदपेक्षमपि । उक्तभाष्येऽपि क्रियापदार्थस्तत्सम्मतभावनैव । अत एव "क्रियां पृष्टस्तिकाऽऽचष्टे”इत्येवोक्तं न तु तिङन्तेनेति । परीक्षा प्राधान्येऽपि नाख्यातलक्षणातिव्याप्तिः । न च प्राधान्यं प्रकारताभिन्नविषयताश्रयत्वरूपमेव विवक्षितम् , एवं च पाक इत्यादौ प्रकृत्यर्थस्य घजन्ताद्यर्थे प्रकारत्वान्नातिव्याप्तिरिति वाच्यम् ? पचतिभवतीत्यादावव्याप्त्यापत्तेः । 'सत्वप्रधानानि नामानि इत्यत्र सत्वं द्रव्यं तच्च लिङ्गसंख्यान्वयि । एवं च लिङ्गसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतापन्नार्थप्रतिपादकत्वं नाम्नो लक्षणं पर्यवसन्नम् । तादृशं नाम तु सुबन्तमेव । “न मन्ति-आख्यातं प्रति विशेषणं भवति, इति तन्नाम"इति च निरुक्तभाष्यम् । अत एव प्रकृतिःप्रत्ययो विभक्तिरित्येतन्नाम । सत्ता-द्रव्यम् । लिङ्गसंख्येति नामार्थः तेषु द्रव्यं प्रधानमइति निरुक्तभाष्यक्रतोत्तम । इदमव्ययातिरिक्तं नामलक्षणम। "नामाख्यातोपसर्गनिपाता" इत्यत्र निपातपदमव्ययमात्रोपलक्षणमिति निरुक्तभाष्ये उक्तम् । तेन पूर्वोक्तनामलक्षणस्याव्ययेष्वव्याप्तिरिति नाशङनीयम् । सत्तापदं प्रवृत्तिनिमित्तपरम् । न च 'काण्डे' इति विभक्त्यर्थप्रधानम् इति भाष्योक्त्यसङ्गतिरिति वाच्यम् ? उक्तेषु नामार्थेषु द्रव्यस्य लिङ्गसङ्घयानिरूपितप्राधान्येऽपि तस्य क्रियाकारकसम्बन्धं प्रति विशेषणत्वेन भाष्ये 'काण्डे' इत्यादेविभक्त्यर्थप्राधान्योक्तेः । हिरुगादिष्वाख्यातलक्षणस्य तेषां क्रियाप्रधानत्वादतिव्याप्तिरिति तु नाशङ्कनीयम् । तेषां क्रियामात्रविशेषणत्वात्तथा व्यवहारो; न तु साध्यावस्थार्थविशेषकबोधजनकतेति बोध्यम् । *भूवादिसूत्रस्थेति । तत्र हि “का तर्हि इयं वाचो युक्ति पचति भवति, त्वं पचसि भवति पक्ष्यति भवतीतिः सैषा वाचोयुक्तिः पच्यादिक्रिया भवतिक्रियायाः को भवन्ति इति प्रतिपादितम् । एतद्भाष्यग्रन्थादेककर्त्तकपचिक्रियैकककं भवनमित्यादिक्रमेण शाब्दबोधस्तेषु भवतीति लभ्यते । प्रत्ययार्थस्य प्राधान्येत्वेतद्भाष्यविरोधः स्पष्ट एव ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy