SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । दर्पणः कृत्यादिरूपभावनाया आख्यातार्थत्वे मानं तु भूवादिसूत्रस्थम् - " कथं ज्ञायतेऽयं प्रकृत्यर्थोऽयं प्रत्ययार्थ” इति प्रघट्टकेऽन्वयव्यतिरेकाभ्यां शक्तिग्राहकम् - " इह पचतीत्युक्ते कश्चिच्छन्दः श्रूयते, पच्शब्दश्चकारान्त अतिश्च प्रत्ययः श्रूयते प्रत्ययार्थोऽपि कश्चिद्गम्यते, विक्लित्तिः कर्त्तृत्वमेकत्वम् । पठतीत्युक्ते कश्चिच्छन्दो हीयते कश्चिद्दुपजायते कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते, अतिशब्दाश्चान्वयी । अपि कचिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिहयते, पठिक्रियोपजायते, कर्त्तृत्वमेकत्वं चान्वयि । तेन मन्यामहे यः शब्दो हीयते तस्याऽसावर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्याऽसावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्याsसावर्थो योऽर्थोऽन्वयी” इति भाष्यम् । तत्राऽतेः प्रत्ययस्य कैश्चित्पूर्वाचार्यैः कल्पनाद् अतिश्च प्रत्यय इत्युक्तमिति कैयटः । पच्यते पठ्यते इत्यादावप्युक्ताऽन्वयव्यतिरेकोहेशेन कर्मत्वस्याप्याख्यातार्थत्वं न्यायसाम्यात्तत एवाऽवधार्यते । ३५ किञ्च "भावप्रधानम्” इति निरुक्तम् । तद्भाष्यस्वरसात् । सकलकारकसङ्ख्याविशिष्टभावनाया धात्वर्थत्वमाश्रित्य प्रवृत्तम् । अत एव नामलक्षणनिर्वचनेन कारकस्य तत्र नामार्थत्वेनोल्लेखः । तस्य धातुलभ्यत्वेन नामार्थत्वाभावादिति तदाशयात् । नच रूपप्सूत्रस्थभाष्यप्रामाण्यात् क्रियाया एकत्वसत्त्वेऽपि द्वित्वाऽऽदिसत्वे मानाभावात्कथं तथोक्तसङ्गतिरिति वाच्यम् । परेत्वित्यादिना वक्ष्यमाणरीत्या कारकगतायास्तस्यास्तत्राऽऽरोपसम्भवात् । कालसङ्ख्ययोर्योत्यत्ववत् कारकस्यापि द्योत्यत्वं न्यायसाम्यात् । तस्य प्रत्ययार्थत्वोपगमे पाचकः पक्क इत्यादाविव प्राधान्यापत्तेः । जात्यतिरिक्तपदार्थस्य विशेषणताया द्योत्यत्वस्यैव तन्त्रत्त्वात् । अत एव "स्त्रियाम्” ( पा०सू० ४।१।३ ) इति सूत्रे भाष्ये प्राधान्याऽऽपत्तिभिया लिङ्गस्य वाच्यतापक्ष उपेक्षितः । वाच्यस्याऽपि प्रकृत्यर्थविशेषणत्वे तदसङ्गतिः स्पष्टैव । न चोक्तकल्पे 'ग्रामं गच्छति' इत्यत्र कर्मबोधवद्धातोरपादानादिकारकविशिष्टक्रियाबोधाऽऽपत्तिः । पञ्चम्यादिरूपसमभिव्याहृतद्योतकविभक्तेरभावात् । तत्र कर्त्तृकर्मणोस्तिङ्समभिव्याहृतद्वितीया दिविभक्तिश्च द्योतिका, अन्येषां त्वन्याः । न हि स्वप्रकृतिकप्रत्ययत्वमेव स्वार्थद्योतकतायां तन्त्रम् । उपसर्गाणां तदनापत्तेः । किन्तु स्वसमभिव्याहृतप्रत्ययनिपातान्यतरत्वम् । तच्च तण्डुलादिपदोत्तरविभक्तेरप्यक्षतम् । द्रव्यस्य संख्या विशेषितस्य तत्वे नाम्नः संख्याभानाऽऽपत्या तदर्थकत्वमावश्यकमिति तद्भावः । अत एव “भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्य" इति भाष्यस्थकारकपदस्याऽसङ्कुचितवृत्तिताऽपि सङ्गच्छते । यदि चान्यप्रकृतिकविभक्तेरन्यप्रकृत्यर्थद्योतकतायाः क्वाप्यदृष्टचरत्वान्नोक्ताऽऽ परीक्षा अत्रेदम्बोध्यम् — काले या शक्तिरुक्ताः सा निरूपकतया तत्र वर्त्तते । आश्रयतया तु लत्वाद्यवच्छिन्ने तत्र वर्त्तमानत्वे वर्त्तमानप्रागभावप्रतियोगित्वरूपभविष्यत्वे वर्त्तमानध्वंसप्रतियोगित्वरूपेऽतीतत्वे यद्वर्त्तमानत्वघटकं तत्तद् दिवसादिकालवृत्तित्वरूपम् । क्रियाया विगमेऽपि तद्दिनमादाय पचतीत्यादिव्यवहारापत्तेः । किन्तु तत्तच्छन्द प्रयोगाधिकर णक्षणवृत्तित्वरूपमेव । नचैवमेव दवपरिवर्त्तनरूपक्रियाधिकरणक्षणे सर्वासां क्रियाणां वर्त्तमानत्वाभावात्पचतीत्यादिव्यवहारानुपपत्तिरिति वाच्यम् ?
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy