________________
वैयाकरणभूषणसारः दर्पणपरीक्षाभ्यां सहितः।
श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् ।
दर्पणः रमाप्रेमाऽमजज्जगदवनदक्षं मधुहृतश्रुतिस्तोमाऽऽहृत्या परिजनितवेदाननमुदम् । अखण्डानन्दाढ्यं निखिलजनहृत्कञ्जनिलयं हयग्रीवं वन्दे प्रकृतकृतिविनक्षतिकृते ॥१॥
सत्येकस्मिन्नपि बाधके समवहितसाधकसहस्रादपि कार्योत्पत्तेरदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्टितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादौ निबध्नाति-*श्रीलक्ष्मीरमणमिति। अधिकरणव्युत्पन्नल्युडन्त रमण'शब्देन कर्तृषष्ठयन्त'लक्ष्मी'पदस्य समासः। तेन च श्रीसहितशब्दस्य मध्यमपदलोपीसमासः । शाकपार्थिवादेराकृतिगणत्वात् । तदुपादानञ्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वनयितुम् । *नौमीति । “णु स्तुतौ” इति धातोरस्मच्छब्दाप्रयोगेऽपि
परीक्षा
॥श्रीगणेशाय नमः ॥ प्रणम्य जानकीनाथं पाणिन्यादिमुनीन् गुरून् ।। बालानां सुखबोधाय सिद्धान्तस्थापनाय च ॥१॥ टीका भूषणसारस्य परीक्षा नामिका शुभा।
भवदेवात्मजेनाथ भैरवेण वितन्यते ॥२॥ सत्येकस्मिन्नपि बाधके साधकसहस्रस्याकिञ्चित्करतया प्रतिबन्धकाभावस्यावश्यकतया प्रारिप्सितसमाप्तिप्रतिबन्धकविघ्नविधाताय कृतमिष्टदेवतानतिरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति-*श्रीलक्ष्मीरमणमित्यादिना* । अधिकरणल्युडन्तरमणशब्देन कर्तृषष्ठयन्तलक्ष्मीशब्दस्य समासः । तेन च श्रीशब्दस्य श्रिया युक्तो लक्ष्मीरमण इति लौकिकविग्रहे समासे शाकपार्थिवादित्वाद्युक्तशब्दलोपः। श्रीशब्दोपादानं च सशक्तिकस्य भगवतो जगदुपादानकारणत्वमित्यभिव्यञ्जयितुम् । *नौमीति । अत्रास्मदोऽनुपादानेऽपि पूर्वसूत्रात् स्थानिनीत्यस्यानुवृत्योत्तमः पुरुषः । गुधात्वर्थश्चोत्कृष्टगुणाश्रयत्वप्रकारकबोधानुकूलव्यापाररूपा स्तुतिः, तद्विशेष्यकश्च शाब्दबोधः । एतच्छास्त्रप्रवर्तकत्वेन शिवस्याभ्यर्हितत्वात्तस्यापि स्तुतिरवश्यक्तायेति तस्यापि तत्कृतैवेति ध्वनयितुमाह-गौरीरमणेतिस्वरूपपररूपशब्दस्य गौरीरमणशब्दस्य