________________
दर्पणपरीक्षासहिते भूषणसारे -
स्फोटरूपं यतः सर्वं जगदेतद् विवर्त्तते ॥ १ ॥
दर्पणः
गम्यमानतदर्थ सामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्त्वाद् वर्त्तमानक्रिया द्योतकलडुतमपुरुषः । " अस्मद्युत्तमः” (पा०सू०-१- ४ - १०७ ) इत्यत्र पूर्व्वसूत्रात् स्थानिनीत्यस्यानुवृत्तेः । स्तुतिश्चोत्कृष्ट गुणवत्त्वप्रका रकबोधानुकूलो व्यापारः । स एव च प्रकृतधात्वर्थः । बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्मता । एवञ्च वैयाकरणमते प्रकृते श्रीसहित लक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नाश्रयको वर्त्तमानशब्दप्रयोगरूपो व्यापार इति वाक्यार्थः । नन्वेतच्छास्त्रप्रवर्त्तकत्वेन शिवस्याभ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह-*गौरीरमणरूपिणमिति । स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोऽदन्तत्वनिबन्धनो मत्वर्थीय इनिः । गौरीरमणो रूपं स्वरूपं यस्येति षष्ठ्यर्थबहुव्रीहिणोक्तार्थलाभेsपि लाघवमूलक- 'न कर्मधारयाद्' इतिन्यायस्य " प्रत्ययस्थात्” (पा०सू० ७-३-४४) इति सूत्रे “असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनादृतत्वान्न मत्वर्थीयानुपपत्तिः । दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम्
'शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।'
इत्यादि । तथा च तदभिन्नमित्यर्थः । प्रमाणं चात्रोक्तपुराणवाक्यमेव । एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाज्जगदवनादिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भावः । उत्कृष्टगुणवत्त्वमेवाविष्करोति-यत इति । वेदान्तिमते मायाशबलस्य ब्रह्मणो जगदुपादानत्वात् “जनिकर्तुः” ( पा० सू० १-४-३० ) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी । 'गुण' इत्युक्तेः "विभाषा" ( पा० सू० २-३-२५ ) इत्यस्य न प्रसक्तिः । तथाच यस्मादुपादानहेतोरित्यर्थः । सर्व जगत् स्फोटरूपं विवपरीक्षा
षष्ठीसमासः, ततो मत्वर्थीय इनिः । लाघवमूलको 'न कर्मधारयात्' इति न्यायस्तु 'असुब्वत' इति "प्रत्ययस्थात्” इति सूत्रस्थभाष्यप्रयोगादनित्य इति न मत्वर्थीयानुपपत्तिः । नन्वनयोर्भेदाद्गौरीरमणमित्यनुपपन्नमिति भ्रमितव्यम् ? कार्य्यस्य वैचित्र्यसिद्धये विजातीयरूपपरिग्रहेण भगवतो विभिन्नव्यवहारो न त्वेतयोः (१) पारमार्थिक भेद इति सिद्धान्तात् ।
यदुक्तं प्राक् तन्निष्टोत्कृष्ठगुणाश्रयत्वप्रकारकज्ञानमित्यादि, तदेतदुपपादयति*स्फोटरूपमिति । यत एतत्सर्वं स्फोटरूपं जगद्विवर्त्त इति सम्बन्धः । स्फुटत्यर्थो - sस्मादिति स्फोटः बाहुलकादपादाने घञ् । स च स्फोटो वाचकः शब्दः । रूप्यते ज्ञायते इति रूपोऽर्थः स्फोटश्च रूपश्चतयोः समाहारः स्फोटरूपम् । वाच्यवाचकयोश्वाभेदः । एतदित्युभयोः समीपतरवर्त्तित्वान्नानुपपन्नम् । विवर्त्तते — उत्पद्यते । ननु "सदेव सौम्येदमग्र आसीत् इति श्रुत्या प्रपञ्चस्य नित्यत्वं प्रतीयत इति कथमेतदिति शङ्कावारणायाह — जगदिति । गच्छतीति जगदिति "वर्त्तमाने पृषत्" इत्यादिना
( १ ) अत एव - "विष्णुरुद्रान्तरं यच्च यो ब्रूते मूढधीस्तु सः । रौरवादिषु घोरेषु नरकेषु पतत्यधः" इति सङ्गच्छते ॥