SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मङ्गलवादः । दर्पणः र्त्तत इति योजना । स्फुटत्यभिव्यक्ती भवत्यर्थोऽस्मादिति स्फोटो नामाद्यात्मकः शब्दः । बाहुलकादपादाने घञ् । रूप्यते निरूप्यते इति रूपमर्थः । तयोः समाहारद्वन्द्वे नपुंसकैकवचनान्तम् । वाच्यवाचकस्वरूपमिति तदर्थः । “नामरूपे व्याकरवाणि " ( छान्दोग्ये ६।३।२ ) इति श्रुतेः । एतत् * - अत्यन्तसान्निध्येन बुद्धया विषयीक्रियमाणम् । *विवर्त्तते* । उत्पद्यत इत्यर्थः । धातोरुपसृष्टत्वात् । ननु नामरूपात्मकस्य, "सदेव सोम्येदमग्र आसीत्" ( छान्दोग्ये ६।२१ ) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह-जगदिति । " वर्त्तमाने पृषत् " ( उणादिसू० पा० २ सू० २५० ) इति निपातनात्साधु । तथा च गच्छति तिरोधत्त इति व्युत्पत्त्या तिरोधाने उक्ते यत्तिरोधत्ते तदाविर्भवतीति नियमेनाविर्भावस्य लाभात्स एवात्रोपसृष्टार्थः । एवञ्च सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिना विर्भावाद्यभ्युपगमान्नोक्तश्रुतिविरोधो; नापि "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूतः " ( तैत्तिरीयके २१ ) इत्याद्युत्पत्तिबोधकतद्विरोधः । यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह - * सर्वमिति । यावदर्थकम् । उत्पत्तिरूपलक्षणमवनादेः । तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यतावच्छेदकस्य लाभः । अत्र च “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तिः यत् प्रयन्त्यभिसंविशन्ति” ( तैत्तिरीयके ३।१ ) इत्याद्याः श्रुतयः प्रमाणम् । मतान्तरे - 'यत' इति पञ्चमी निमित्तहेतुतायाम् । व्युपसृष्टवृतुधातोराद्यक्षणसम्बन्धरूपोत्पत्तिरर्थः 1- ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया कथमुत्पत्तिमत्त्वमत आह - *जगदिति । स्थावरजङ्गमात्मकमित्यर्थः । तथा च गच्छति नश्यतीति व्युत्पत्त्या विनाशित्वे बोधिते विनाशिभावस्य जन्यत्वनियमेन तस्योत्पत्तिर्न विरुद्धेतिभावः । एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतपरम् । तादृशं रूपं यस्येतिव्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम् । शेषं पूर्ववत् । यद्वा स्तुत्यतावच्छेदेकरूपं प्रदर्शयितुं विशिनष्टि -*स्फोटरूपमिति । वक्ष्यमाणव्युत्पत्त्या समस्तार्थप्रकाशकस्वरूपमित्यर्थः । तदुपपादयन्नेव स्तुत्यतावच्छेदकान्तरमपि दर्शयति -* -*यत इति । यस्मादुपादानादिति सार्वविभक्तिकतसिना यस्मिन्नधिष्टाने इति वार्थः । विवर्तश्चातात्त्विकोऽन्यथाभावः । अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमिति यावत् । जगच्छन्दश्च रूढया नामरूपपरः । तथाच यस्मिनधिष्ठाने एतत्सर्वं जगद्भूतेन्द्रियादितत्तद्रूपेण प्रतिभातीत्यर्थः । “नेह नानाऽस्ति” ( काठके २|४|११ ) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठानसत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिः, अप्रच्युतस्वरूपस्यैव ब्रह्मणो जगद्रूपेण विवर्तनादविकारित्वरूपोत्कृष्टधर्मावगतिश्च । अत्र च " तमेव भान्तमनुभाति सर्वम्” ( काठके २।५।१५, मुण्डके २।२।१२ ) इत्याद्याः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः । अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारोऽङ्गम् ॥१॥ जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छाखव्याख्यातृशेषभूषण परीक्षा अयं साधुः । एतेन नश्वरत्वस्य लाभः । नाशश्च तिरोभावः । एवञ्च यस्य तिरोभावो भवति तस्याविर्भावो भवतीति भगवतो जगद्विवर्त्तोपादानत्वस्य नानुपपत्तिः । अत एव श्रुतौ - "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्तिः यत् प्रयन्त्यभि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy