________________
दर्पणपरीक्षासहिते भूषणसारेअशेषफलदातारं भवाब्धितरणे तरिम् । शेषाऽशेषार्थलाभार्थ प्रार्थये शेषभूषणम्(१) ॥२॥
दर्पणः त्वेन च स्तुवञ्छेषोक्तसमस्तसिद्धान्तप्रतिपत्तये प्रार्थयते-*अशेषेति । फलं-प्रवृत्त्युद्देश्यम्। स्वर्गादियत्किञ्चित्फलदातृत्वस्य देवतान्तरसाधारण्यादाह-*अशेषेति । तथा चापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तदातृत्वस्यानन्यसाधारण्यात् प्रार्थ्यता. वच्छेदकधर्मलाभः। तदेव विशदयति-*भवाब्धीति* । भव एवाब्धिरिति रूपकम् । अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वादू दुरवगाहत्वेन भवे तदारोपः । तेन च भवस्य दुस्तरत्वं व्यज्यते। तस्य तरणं पारदेशप्राप्तिस्तस्मिन्नित्यर्थः । *तरिम्*साधनम् । यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदूधटकीभूततरणस्य सन्निहितपदेनैव लाभात् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम् । मुक्तिसाधनज्ञानविषयमिति यावत् । मुक्तिश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकाला स्वरूपप्राप्तिः । नन्वज्ञाननिवृत्तेरधिकरणाऽनतिरिक्तायाः, स्वरूपस्याऽपि च सिद्धत्वात्तद्रूपायास्तस्यास्तत्त्वज्ञानसाध्यत्वानुपपत्तिरिति चेत् न।परेषां प्रागभा. वस्येव सिद्धाया एवाज्ञाननिवृत्तेर्योगक्षेमसाधारण्याःसाध्यतायाः सम्भवात् । अधिकमन्यतोऽवधेयम् ।
नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः । ध्वंसे आत्यन्तिकत्वञ्च-स्वसमानाधिकरणदुःखासमानकालिकत्वम् । अत्रैव तत्त्वज्ञानस्योपयोगः। विशेष्यांशस्य स्वासाधारणसामग्य एव सम्भवात् , नित्यसुखाभिव्यक्तिर्वा स इत्याहुः। ___ *शेषाशेषेति* । कर्मधारयोत्तरपदः षष्ठीतत्पुरुषः। तस्य च लाभपदेन समासः । लाभायेदमिति विग्रहे चतुर्थ्यन्तलाभपदस्यार्थपदेन सः । शेषः-पतञ्जलिः, शेषांशत्वा
परीक्षा संविशन्ति इति प्रतिपादितम् ।
मुक्तिसाधनज्ञानविषयत्वेनैतच्छास्त्रे प्रधानीभूतो यः शेषस्तत्भूषणत्वेन च स्मृतः शिवो भगवानभीप्सितं सर्व दास्यतीत्याशयेन तं प्रार्थते-*अशेषफलदातारमिति । अत्राशेषपदोपादानेन यत्किञ्चित्फलदातृदेवतान्तरादुत्कर्षलाभः । अशेषफलमध्ये मोक्षस्याऽपि घटकत्वान्मोक्षदातृत्वं यद्यपि लब्धम् । तथाऽपि तस्य फलस्य सर्वोत्कृष्टत्वसूचनाय पुनराह-*भवाब्धीति* । भवः संसारः स एवाब्धिः ग्राहादितुल्यलोभकामाद्याक्रान्तत्वेन अस्याब्धित्वेन निरूपणम् । एतेन दुस्तरत्वस्य लाभः, तस्य तरणं परं पारगमनन्तच्चानः ततो निवृत्तिस्तत्र तरिम्-पोतम् , तत्साधनमितियावत् । एतेन मुक्तिसाधनज्ञानविषयत्वं स्पष्टतयैव लभ्यत इति । मुक्तिश्चाज्ञाननिवृत्तिपूर्वकस्वस्वरूपप्राप्तिः । निवृत्तिश्चाभावरूपाधिष्ठानात्मिका स्वस्वरूपमपि ब्रह्मात्मकमेव । तच्च यद्यपि न जन्य तथापि योगक्षेमसाधारणसाध्यतेह विवक्षिता । *शेषाशेषेति । कर्मधारयोत्तरपदकः षष्ठीतत्पुरुषः। शेषः पतञ्जलिस्तत्प्रतिपादितत्वं षष्टयर्थः। एतेन (१) "वाग्देवी यस्य जिह्वाग्रे नरीनति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥
अत्रायं श्लोक उपलभ्यते क्वचित् ।