________________
मङ्गलवादः ।
पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधं द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् ।
दर्पणः
तस्य । तथा च शेषोक्तभाष्यप्रतिपादित निखिल सिद्धान्तज्ञानायेत्यर्थः । * शेषभूषणमिति । शेषोऽनन्तः, स भूषणं यस्येत्यर्थः । यतोऽस्य-भूषणं शेषोऽतोऽस्य शेषोक्तसिद्धान्तलब्ध्यै प्रार्थनमिति साभिप्रायविशेष्यस्योपादानात्परिकराङ्कुरोऽलङ्कारोऽत्र भगवद्विषयकरत्यङ्गम् ॥ २ ॥
प्रेक्षावत्प्रवृत्तये। इतरग्रन्थेभ्यः स्वग्रन्थस्योत्कर्ष प्रदर्शयन्नेव दर्शनीयविषयप्रयोजनसम्बन्धाधिकारिणां मध्येऽवश्यप्रदर्शनीयं विषयं दर्शयति-*पाणिन्यादीति । पुम्भाववाग्देवतामिति पितुर्विशेषणम् । पुंसो भावो यस्या इति व्यधिकरणबहुव्रीहिपूर्वपदकः कर्मधारयो वाग्देवतापदेन । अथवा पुम्भावशब्दोऽर्शआद्यजन्तः । तथा चाऽऽविष्कृतपुंविग्रहां सरस्वतीमित्यर्थः । * द्वैतध्वान्तेति । द्वाभ्यां प्रकाराभ्यामितो ज्ञातो विरुद्धो भयधर्मप्रकारकज्ञानविषयो धर्मीति यावत् । यद्वा-द्वयोर्भावो द्विता । स्वनिष्ठैकविशेष्यतानिरूपितप्रकारतासम्बन्धेन विरुद्ध नानाधर्माशे धर्मिणोऽपि भावत्त्वसम्भवाढू द्वितापदार्थोऽपि धम्येव । तत्र भवं द्वैतं संशयात्मकज्ञानम् । अथ वा-द्वयोरनेकस्य भावो द्विता - नानात्वं, तत्सम्बन्धिज्ञानं द्वैतम्, परमार्थदशायामद्वितीयस्यैव ब्रह्मणोऽङ्गीकारेण श्रुतिबाधितनानात्वावगाह्यन्तः करणवृत्तिविशेषरूपम् - अविद्या परपर्यायं - मिथ्याज्ञानम् । तदेव ध्वान्तम्-तमः, तत्त्वाऽऽच्छादकत्वात्तन्निवारणमेकं मुख्यं परीक्षा
महाभाष्यार्थस्य लाभः । *शेषभूषणम् * - शेषोऽनन्तः स भूषणं यस्य तम् । अत्र विशेष्यस्य तादृशशिवस्य प्रार्थनया शेषो यस्य भूषणं तदधीनत्वात्तत्प्रार्थनया तदुक्तार्थलाभोऽवश्यमेव भविष्यतीत्यभिप्रायलाभ इति ( १ ) परिकराङ्कुरालङ्कारलाभः
।
एतच्छास्त्रे मुनित्रयस्य प्राधान्यान्निर्विघ्नपरिसमाप्त्यर्थं तन्नतिरूपं मङ्गलं कुर्वन् पितुरपि उत्कृष्टदेवतात्वात्तमपि नमस्कुर्वन् विषयप्रदर्शनस्य प्रेक्षावत्प्रवृत्त्यर्थमाश्यकत्वात्, तदपि करोति – पाणिन्या दितीति । पुम्भाववाग्देवतामिति । इदं पितुर्विशेषणम्, पुंसो भावो धर्मो यस्यां सा सा चासौ वाग्देवता चेति समासः । एवं चाविष्कृतपुंविग्रहा या सरस्वती तद्रूप एव तस्यव विशेषणान्तरम् । द्वैतध्वान्तेत्यादि । द्वैतशब्दो द्वाभ्यां विरुद्धधर्माभ्यामितो ज्ञातो यो धर्मो तत्परः, स एव द्वैतस्तस्मिन् यत् ध्वान्तमज्ञानं विषयतासम्बन्धेन वर्त्तमानं विरुद्धधर्म प्रकारकं ज्ञानमेव तन्निवारणफलिकामित्यर्थः । अथवा द्वयोर्भावो द्विता द्वितैव द्वैतं द्वित्वरूपा संख्या तस्मिन्, यद् ध्वान्तमेकविशेष्यकद्वित्वप्रकारकं ज्ञानमेव तन्निवारणफलिकाम् । “एकमेवाद्वितीयं ब्रह्म” “नेह नानास्ति किञ्चन ” इत्यद्वितीयत्वप्रतिपादिका या श्रुतिस्तद्वय
( १ ) अस्यालङ्कारस्य लक्षणं साहित्यदर्पणे नास्ति, कुवलयानन्दकारिकायां तु दृश्यते । “साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः” ॥६२॥ अत्र परिकराङ्कुरोऽलङ्कारो; न तु परिकर इति न विस्मर्तव्यम् ।