SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - दुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये (१) ॥ ३ ॥ प्रारिप्सित प्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्य शिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजानीतेफणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्घृतः । दर्पणः फलं यस्यास्तामित्यर्थः । अनधिकारिणां स्वाश्रितानामेकतरकोटिकज्ञानोत्पादकत्वेनाधिकारिणां सन्मात्रावलम्बनज्ञानप्रदत्वेन पुम्भाववाग्देवतायास्तन्निवर्तकत्वमिति भावः । *दुण्ढि* । गणपतिं, प्रणम्येत्यनुषज्यते । * सिद्धान्तानिति । भाष्यकारादिनिर्णीतार्थाः सिद्धान्तास्तानित्यर्थः । उपपत्तिभिः । साधकप्रमाणोपन्यासरूपाभियुक्तिभिरित्यर्थः । *डूषये । उपपत्तिभिरेव बाधकप्रमाणोपन्यासरूपाभिरित्यर्थः । एतेनाऽन्यग्रन्थेभ्यः स्वग्रन्थस्योत्कृष्टत्वं ध्वनितम् । तथाच वैयाकरणसिद्धान्तोऽत्र विषयः प्रदर्शितः । तेनैव तज्ज्ञानं प्रयोजनं, प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, सिद्धान्तजिज्ञासुरधिकारीति त्रयोऽन्येऽपि दर्शितप्राया इति भावः ॥ ३ ॥ ग्रन्थादावनुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च प्रयोजनमाह -* प्रारिप्सितेत्यादिना । समाप्तये इति विहाय 'प्रतिबन्धकोपशमनाय ' इत्युक्तया अलौकिकाऽविगीतशिष्टाचारानुमितमङ्गलस्य विघ्नध्वंस एव फलम् । जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टानां मङ्गलाननुष्ठानान्मङ्गलसमाप्त्योः शरीरनिष्टप्रत्यासत्त्यैव कार्यकारणभावस्य कल्पनीयतया तस्य च नास्तिकसमाप्तौ व्यभिचारेण समाप्तेस्तत्त्वासम्भवात्, किन्तु कार्यमात्रं प्रति प्रतिबन्धकाभावस्य हेतुतया दुरितरूपप्रतिबन्धकनिरास एव मङ्गलस्योपयोगी ; न तु समाप्तावपि, विघ्नध्वंसेनान्यथासिद्धत्वात्, समाप्तिस्त्वन्यत्र क्लृप्ततत्कारणकलापादिति सूच्यते । *फणिस्मरणेति । फणी - शेषः । “ शेषाख्यं धाम मामकम्" इति भगवदुक्तस्तत्स्मरणस्य विघ्ननिवारकत्वात् । मङ्गलस्य नतिस्तुत्यादिभेदेन नानात्वमिति सूचयितुं स्मरणेत्युक्तम् । प्रतिजानीत (१) इति । प्रतिज्ञाफलं तु परीक्षा वस्थापकमिति यावत् । *दुण्ढिम् - गणपतिम् । सिद्धान्तान् — भाष्यकारसम्मतसिद्धान्तान् । *उपपत्तिभिः - साधकप्रमाणोपन्यासरूपायुक्तिभिः । *दूषये इति ॥ बाधकप्रमाणोपन्यासेनेति शेषः । एतेन वैयाकरणसिद्धान्तो विषयस्तज्ज्ञानं प्रयोजनं तजिज्ञासुरधिकारी प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति त्वर्थादुक्तं भवति । ग्रन्थादौ कृतस्य मङ्गलस्य प्रयोजनमाह-प्रारिप्सितस्येत्यादिना । अत्र प्रतिबन्धकोपशमनायेति कथनेन विघ्नध्वंसस्यैव मङ्गलफलत्वमुक्तम् । आत्मनिष्ठप्रत्यासत्या चैतयोः कार्य्यकारणभावः । समाप्तिस्तु विघ्नध्वंसवटितकारणकलापाद्भवति । स्मररूपमित्यनेन मङ्गलस्य नतिस्मृत्युभयरूपत्वं ध्वनितम्। * चिकीर्षितमित्यादि । ( १ ) अस्याग्रे - " नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् । श्रीकौण्डभट्टः कुर्वेहं वैयाकरणभूषणम् ॥', क्वचिदयं श्लोक उपलभ्यते ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy