________________
भूषणसारस्थमूलकारिकासालनम् । अटेवेत्यादिषु नहि प्रकृत्यादिभिदा स्थिता। . वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥६५॥ हरेऽवेत्यादि दृष्टा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे ॥ ६६ ॥ लक्षणादधुनाचेत्तत्पदेऽर्थेऽप्यस्तु तत् तथा । सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ ६७ ॥ भाडास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् । पदे न वर्णा विद्यन्ते वर्णष्ववयवा नच ॥ ६८ ॥ वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन । पश्वकोशादिवत्तस्मात् कल्पनैषा समाश्रिता ॥६॥ उपेयप्रतिप्रत्यर्था उपाया अव्यवस्थिताः। कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥७० ॥ स्वरदैाद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्यते । शक्यत्व इव शक्तत्वे जातेलांघवमीक्ष्यताम् ॥ ७१ ॥ औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् । अनेकन्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृतः ॥ ७२ । कैश्चित् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः । सत्यासत्यो तु यो भागो प्रतिभावं व्यवस्थितौ ॥ ७३ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः। इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरखनम् । ब्रह्मवेत्यक्षरं प्राहुस्तस्म पूर्णात्मने नमः ॥ ७४॥
इति भूषणसारस्थमूलकारिकासङ्कलनम् ।
प्राप्तिस्थानम्
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी।