SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भूषणसारस्थमूलकारिकासङ्कलनम् । व्यापकत्वाच्छकतायास्त्ववच्छेदकमिप्यते ॥४॥ कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ४॥ अत्रार्द्धजरतीयं स्याद् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थिते पक्षद्वयं त्वादिषु तच्छणु ॥ ५० ॥ प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् ।। धर्ममात्र बाच्यमिति यद्वा शब्दपरा अमी ॥ ५१ ॥ जायन्ते तज्जन्यबोधप्रकारे भावसंशिते । प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ॥ ५२॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः । देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥ ५३॥ प्रदेय एव वा शक्तिः प्रकृतेर्वास्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः॥५४॥ क्रीडायां णस्तदस्यास्तीत्यादावेरेव दिक् स्मृता। वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५ ॥ अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः। कपिजलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ॥ ५६ ॥ लक्ष्यानुरोधात् सङ्ख्यायास्तन्त्राऽतन्त्रे मते यतः। पश्वैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥ विधेये भेदकं तन्त्रमन्यतो नियमो नहि । ग्रहकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५ ॥ रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः। क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥॥ अव्ययकृत इत्युक्तः प्रकृत्यर्थं तुमादयः। समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥ ६०॥ वाक्थस्फोटोऽतिनिष्कर्ष तिष्ठतीति मतस्थितिः। साधुशब्देऽन्तर्गता हि बोधका नतु तत्स्मृताः ॥ ६१ ॥ व्यवस्थितेर्व्यवहृतेस्तद्धतुन्यायतस्तथा । किश्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय । तरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा ॥ ६३॥ नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधाय॑ताम् । अथादेशा चाचकाश्चेत् पदस्फोटस्ततः स्फुटः॥ ६४॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy