________________
भूषणसारस्थमूलकारिकासकलमम् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव माश्रितः ॥ ३२ ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ ३३ ॥ मषष्ठपर्थबहुव्रीही व्युत्पत्त्यन्तरकल्पना ।। कुलप्तत्यागश्वास्ति तव तत् किं शक्तिं न कल्पयेः ॥ ३४ ॥ माख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभाषादौ तत्र दृष्टो विपर्ययः ॥ ३५ ॥ पर्यवस्यच्छाब्दबोधाऽविदूरप्राक्क्षणस्थितेः। शक्तिप्रहेन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ॥ ३६ ॥ इन्द्रियाणां स्वविषयेवनादियोग्यता यथा । अनादिरथैः शब्दानां सम्बन्धो योग्यता तथा ॥ ३७॥ असाधुरनुमानेन वाचकः कैश्चिदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ ३८॥ सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता । समयाद् योग्यतासंविन्मातापुत्रादियोग्यवत् ॥ ३ ॥ नासमासे चापरस्य प्राधान्यात् सर्वनामता । मआरोपितत्वं नद्योत्यं नासोऽप्यतिसर्ववत् ॥ ४० ॥ अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥४१॥ द्योतकाः प्रादयो येन निपाताश्चादयस्तथा।। उपास्येते हरिहरौ लकारो दृश्यते यथा ॥४२॥ तथान्यत्र निपातेऽपि लकारः कर्मवाचकः। विशेषणाद्ययोगोऽपि प्रादिवञ्चादिके समः ॥४३॥ पदार्थः सदशाऽन्वेति विभागेन कदापि न । निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥४४॥ शरैरुरिवोदीच्यानुद्धरिष्यन् रसानिव । इत्यादावन्ययो न स्यात् सुपाञ्च श्रवणं ततः ॥ ४५ ॥ नजसमासे चापरस्य द्योत्यं प्रत्येव मुख्यता ।
धोत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६॥ : निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ युक्तं वा नतु तद्युक्तं परेषां मतमेव नः॥४७॥ निपातत्वं परेषां यत्तदस्माकमिति स्थितिः।