________________
भूषणसारस्थमूलकारिका सङ्कलनम् ।
सिद्धभावस्तु यस्तस्याः स घयादिनिबन्धनः ॥ १५ ॥ सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम् ॥ १७ ॥ यदि पक्षेऽपि वत्यर्थः कारकञ्च नत्रादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥ १८ ॥ अविग्रहा गतादिस्था यथा प्रामादिकर्म्मभिः । क्रियासम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥ १६ ॥ कृत्वोऽर्थाः क्त्वातुमुन् वत्स्युरिति चेत् सन्ति हि कचित् । अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥ भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् ।
साधुत्वं तदभावेऽपि बोधो नेह निवार्य्यते ॥ २१ ॥ वर्त्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ॥ २२ ॥ ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः ।
सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ् स्मृतः ॥ २३ ॥ आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ।
यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः ॥ २४ ॥ एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ २५ ॥ शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थोऽवभासते ॥ २६ ॥ अत एव गवित्याह भूसत्तायामितीदृशम् | न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥ २७ ॥ सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षडूविधो बुधैः ॥ २८ ॥ समासस्तु चतुद्धति प्रायोवादस्तथापरः । योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २६ ॥ भौतपूर्व्यात्सोऽपि रेखागवयवदाश्रितः । जहत्स्वार्थाजहत्स्वार्थे द्वे वृची ते पुनस्त्रिधा ॥ ३० ॥ भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः । समासे खलुभिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३१ ॥
४ द० प०