SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अथ भूषणसारस्थमूलकारिकासङ्कलनम् । फणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः सङ्क्षपेणेह कथ्यते ॥१॥ फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः फले प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ॥ २ ॥ फलव्यापारयोस्तत्र फले तङ्यचिणादयः व्यापारे शपश्नमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् ॥ ३ ॥ उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथोचितं शेयं द्योतकत्वं यथागमम् ॥४॥ व्यापारी भावना सैवोत्पादना सैव च क्रिया । कृमोऽकर्मकतापत्ते हि यत्नोऽर्थ इष्यते ॥ ५॥ किन्तूत्पादनमेवातः कर्मवत्स्याधगाद्यपि । कम्मकर्तय॑न्यथा तु न भवेत्तद् द्वशेरिव ॥६॥ निर्वत्यै च विकायें च कर्मवद्भाव इष्यते। नतु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः ॥ ७॥ तस्मात् करोतिर्धातोः स्याद् व्याख्यानं, नत्वसौ तिङाम् । पक्कवान् कृतवान् पाकं कि कृतं पक्वमित्यपि ॥ ८॥ कि काय्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥8॥ सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। नहि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ १०॥ धात्वर्थत्वं क्रियात्वञ्चद्धातुत्वं च क्रियार्थता। अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ॥ ११ ॥ मस्त्यादावपि धम्यंशे भाव्येऽस्त्येव हि भावना। अन्यत्राशेषभावातु सा तथा न प्रकाशते ॥१२॥ फलव्यापारयारेकनिष्ठतायामकर्मकः। धातुस्तयोर्धम्मिभेदे सकर्मक उदाहृतः॥ १३ ॥ माख्यातशब्दे भागाभ्यां साध्यसाधनरूपता । प्रकल्पिता यथाशास्त्रे स घादिष्वपि क्रमः॥ १४ ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy