________________
तिङर्थवादसारः ।
ve
कर्त्तरि च तेन विधीयन्ते । नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकता शक्तिमादाय • शसादिविधानवत् । न च व्याकरणं न शक्तिग्राहकम् अपि तु साधुत्वमात्रार्थक मिति वाच्यम् । “शक्तिग्रहं व्याकरणोपमानेति” नैयायिक वृद्धोक्त्य सङ्गतेः । अर्थविशेषपुरस्कारेणैव साधुत्वस्य महाभाष्यसम्मतत्वाच्च पदसमयपरिपालनाय व्याकरणं प्रवृतम्” इतिन्यायभाष्योक्तेश्च ॥
नच "द्वयेकयोर्द्विवचनैकवचने" "ब्रह्मणो जनपदाख्यायाम्" इत्यादौ भावप्रधाननिर्देशस्य सूत्रकृच्छैलीसिद्धत्वेन पक्ता देवदत्त इत्यादावभेदान्वयोपपत्तये “कर्त्तरि " इत्यत्र कर्त्तपरत्वेन क्लृप्तस्याऽपि कर्त्तृपदस्योक्तरीत्या लाववरूपविनिगमकस. द्भावेन प्रकृते शब्दाधिकाराश्रयणेन धर्मपरत्वे ऋषिस्वारस्यानुमानेन न शक्तिग्राहक व्याकरणमपि प्रतिकूलमिति वाच्यम् । कर्त्तरि शक्तिस्वीकारेऽप्युक्तरीत्याऽऽश्रय· त्वस्य शक्यतावच्छेदकत्वकल्पनेन गौरवाभावात् । रथो गच्छति जानातीत्यादावगस्याssश्रये आश्रयत्वे वा लक्षणायां लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छे इकत्व'स्यापि गुरूणि स्वीकारे बाधकाभावाच्च । अन्यूनानतिप्रसक्तवृत्तित्व रूपस्यावच्छेदकत्वस्य गुरुण्यपि सत्वात् । अस्तु वा सभवति लवौ गुरौ नावच्छेदकत्वमिति, परन्तु यंत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुधर्मावच्छिन्ने शक्तिर्गुर्व•च्छिन्ने लक्षणेति युक्तम् । प्रकृते च प्रत्ययात्कृतित्वेन बोधः सविवादः, धातुत एव तद्बोधात् । शब्दाधिकारस्यानेकशक्तिकल्पनादूषितत्वेन गौरवपराहतत्वाच्च । “अतो गुण" इत्यतोऽत इत्यनुवृत्यैव सिद्धे “अव्यक्तानुकरणस्य" इतिसूत्रेऽत इतिकरणेन श'ब्दाधिकारस्य प्रमाणसापेक्षत्वसूचनाच्च "ष्णान्ता षड्” इतिसूत्रभाष्ये " न चान्यार्थ प्रकृतमनुवर्तनादन्यद्भवति, नहि गोधा सर्पन्ती सर्पणादहिर्भवति इत्युक्त्या शब्दाधिकारस्यावहेलनाच्च ॥ न च नायं सर्वथा शब्दाधिकारः, किन्तु पूर्वत्र विशिष्टपरस्य कर्तृपदस्य विशेषणमात्रपरत्वमिति वाच्यम् । एतस्याऽपि लक्षणामन्तरेणासंभवेनैवमपि वृत्तियकल्पना या दुर्वास्त्वात् । किञ्च पक्ता देवदत्त इत्यादावभेदान्वयानुरोधेन कृतः कर्त्तरि शक्तिरिव पचतिरूपं देवदत्त इत्यादावभेदान्वयानुरोधेन तिङोऽपि कर्त्तरि शक्तिरावश्यकी । नतु तिङ्प्रत्ययो न नामेतिचेत् तृनादिरपि नेतितुल्यम् । तृजाद्यन्तं नामेति चेत् रूपबाद्यन्तमपि नामेति तुल्यम् । युक्तं चैतत्, अन्यथाऽर्धमात्रालाघवेनापि पुत्रोत्सविं मन्यमानो भगवान् पाणिनिः कर्त्तरीत्युक्तावपि "लः कर्मणि" इत्यत्र लक्षणाया गले पतितत्वेन "स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जमह" इतिन्यायविरोधस्य दुर्वारत्वेन "कर्तरि कृद्" इत्यत्रैव मात्रालाघवानुगृहीतामाश्रये लक्षणामभिप्रेत्य कृतावित्येव ब्रूयात् कर्तरीति त्यजेत् ॥
किञ्च कथंचिच्छन्दाधिकारमाश्रित्याऽपि लकाराणां कृतिवाचकत्वं दुर्वचम्, पचन्तं चैत्रं पश्य, पचते चैत्राय देहीत्यादौ शतृशानजादीनामपि तिबादिवल्लादेशत्वाविशेषेण तेभ्यः कृतिमात्रबोधापत्तेः । न चेष्टापत्तिः, तत्राभेदसंसर्गस्यैव वक्तव्यतया कर्त्तवाचकत्वस्यैव त्वयाऽप्यभ्युपगमात् । नामार्थयोरभेदस्यैव संसर्गत्वात् । नन्वत एव शत्रादीनां कर्त्तरि शक्तिः तिबादीनां कृतावेवेति वैषम्यमिति चेन्मैवम् । स्थान्येव वाचको लाघवान्नत्वादेशो गौरवादिति हि तव मतम् । अत एव राम इत्यादौ सुत्वेनैकत्वे शक्तिरित्यादिस्त्वदीयानां व्यवहारः । एवं स्थिते तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानत्वम् । बोधकस्तु लकार एव स च शत्राद्यन्ते कर्त्तरि शक्त इति