________________
१५० दर्पणपरीक्षासहिते भूषणसारेकर्मता। घटं करोतीत्यत्र उत्पत्त्याश्रयत्वाद् उत्पत्तेर्धात्वर्थत्वात् ।
दर्पणः 'उक्तप्रायत्वात्' इति ॥ 'अग्नेर्माणवकं वारयति' इत्यादावग्न्यादावतिव्यातिनिरासाय व्यापारे कर्तगतत्वमुपात्तम् । वारयतेश्च संयोगानुकूलव्यापाराभावानुकूलव्यापारोऽर्थः।
चैत्रो ग्रामं गच्छति इत्यादौ चैत्रादेरिणाय व्यधिकरणेति । वैयधिकरण्यं च-तदनधिकरणवृत्तित्वं, न तु तदधिकरणावृत्तित्वम् । तस्य संयोगे असत्त्वेन ग्रामादावव्याप्तः । ताशवैयधिकरण्यविशिष्टाऽधिकरणतायाश्चैत्रादावसत्त्वान्नातिप्रसङ्गसम्भावनापि । 'माषेष्वश्वं बध्नाति' इत्यादौ बन्धनप्रयोज्यभक्षणाश्रयमाषाणां तत्त्ववारणाय प्रकृतधात्वर्थत्वं फलविशेषणम् । प्रकृतत्वं च-तत्र तत्र विशिष्योपादेयम् । पयसौदनं भुङ्क्ते' इत्यादौ तु कर्मत्वाविवक्षणान्न द्वितीया । कृतभोजनस्य पयो लोभेन प्रवृत्तावीप्सिततमत्वस्यापि पयसि सम्भवादिति। ___ ननु परैः कृतो यत्नमात्राऽर्थकत्वाभ्युपगमात् कथमुत्पत्तेः प्रकृतधात्वर्थत्वमत आह-*उत्पत्तेरिति । तथाच-कृज उत्पत्तिरूपफलार्थकत्वस्य प्रागुपपादनान्नार्थास
परीक्षा `भिन्नोऽखण्डोपाधिः । अत एव तस्यैकस्य वाच्यताऽवच्छेदकत्वे लाघवम् । आश्रय आश्रयानुगताकारव्यवहाराच्च तस्यैकस्य सिद्धिः। ननु विभुष्विति व्यवहारस्य सर्वविभुषु दर्शनेन विभुत्वस्याप्यखण्डस्य सियापत्तिरिति चेद् ? न। इष्टत्वात् । अत्रापिशब्दानां प्रवृत्तिपक्षे जातिः पदार्थमते चाभावत्वादिवत् सामान्यादीनि निःसामान्यानि इति परिभाषाया नैयायिकसम्मताया अनाश्रयणात् । जातीयताया अपि व्यक्तियतावदभावात् । 'प्रामं गच्छति'इत्यादौ कर्मणो द्वितीयार्थाश्रये अभेदेनान्वयः । तस्य फले संयोगादिरूपे स्वनिष्ठाश्रयतानिरूपितत्वसम्बन्धेनान्वयः। नचैवमाश्रयत्वं निरूपकभेदेन भिद्यतेति कथं तस्यासिद्धिरितिवाच्यम् ? समवायस्य प्रतियोग्यनुयोगिभेदेऽप्येकत्ववनिरूपकभेदेऽपि तद्भेदाकल्पनात् ।न चैवं सति भूमि गच्छति' "न मही. रूहं विहगः' इत्यादौ द्वितीयार्थाश्रयस्य महीरुहाभिन्नस्य स्वनिष्ठाश्रयनिरूपकत्वस. म्बन्धावच्छिन्नप्रतियोगिताकाभावो धात्वर्थमूले वाच्यः, स च न सम्भवति। शक्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वादिति वाच्यम् ? स्वनिष्ठाश्रयतानिरूपकस्थले स्वस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावश्च नैयायिकसम्मत्या शक्यसमनियताभावानामेकत्वमपि तन्मतेऽस्त्येवेति वृत्त्यनियामकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य सत्वाद् वृत्यनियामकसम्बन्धाभावरूपतया-इतिरिक्ताभावकल्पनाविरहात्। वृत्त्यनियामकसम्बन्धावच्छिन्नातिरिक्ता प्रतियोगिता कल्पनीयेति गौरवं परमतिरिच्यते तच्च नास्माकं प्रतिकूलम् । सर्वस्य पदार्थस्य मायापरिणामरूपतया तस्य नियमाभावात् इति ध्येयम् । *कर्मतेति । कर्मसंज्ञेत्यर्थः। एतेन प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वं कर्मसंज्ञा प्रयोजकमित्युक्तं भवति । 'अग्नेर्माणवकं वारयति' इत्यादौ वारयतेः उत्तरदेशसंयोगानुकूलव्यापाराभावानुकूल. व्यापारार्थकतयाऽग्निवृत्तिसंयोगरूपफलस्य प्रधानीभूतव्यापारप्रयोज्यताविरहेण नाग्नेः कर्मसंज्ञाप्राप्तिरिति "वारणार्थानाम्” इति सूत्रस्य नानवकाशत्वम् । “चैत्रो ग्राम गच्छति' इत्यादौ तु चैत्रादेः प्राप्ताऽपि कर्मसंज्ञा कर्त्तसंज्ञया बाध्यते । 'माषेष्वश्वं