________________
सुबर्थनिर्णयः ।
१५१
जानातीत्यत्र आवरणभङ्गरूपज्ञाधात्वर्थफलाऽऽश्रयत्वात् । अतीताऽनागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् । अन्यथा यथापूर्व्वं न जानामीत्यापत्तेः । अतीतादेराश्रयता च विषयतया
दर्पणः
ङ्गतिरिति भावः । धात्वर्थत्वादित्युक्तया कृञः केवलयत्नार्थकत्वे घटादीनां कर्मत्वानुपपत्तिरति दोषत्वेन ध्वन्यते । *आवरणभङ्गेति । प्राचीनमतानुसारेणेदम् । निष्कृष्टमते तु ज्ञानरूपफलस्यविषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम् । न चाकमैकतापत्तिः । फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात् । नैयायिकमते त्वेतास्थले यथा घटादीनां कर्मत्वं तथोपपादितं धात्वर्थनिरूपणावसरे ।
..
ननु विद्यमानव ज्ञानजन्यावरणभङ्गस्य सम्भवेऽपि भाविविनष्टघटे निराश्रयस्य तस्यासंभवेन तस्य कर्मत्वानुपपत्तिरत आह-अतीतानागतेति । तत्राश्रयताङ्गीकारे युक्तिमाह —* अन्यथेति । विनष्टे तत्रावरणभङ्गा स्वीकारे इत्यर्थः ॥ यथापूर्वमिति जानाति क्रियाविशेषणम् । पदार्थानतिवृत्तावव्ययीभावः । पूर्व मनतिक्रम्येत्यर्थः । पूर्वज्ञानानतिक्रमो यस्मिंस्तदिति यावत् । घटस्य विद्यमानतादशायां तात्कालिकज्ञानस्य तदूघटे आवरणभङ्गजनकतयाऽतीतदशायामाधुनिकज्ञानस्य तदजनकत्वेन पूर्वातिक्रमस्य तत्वात् पूर्वानतिक्रान्तज्ञानाभावस्य विषयस्याऽबाधात्तादृशप्रयोगस्य प्रामाण्यापत्तेरित्यर्थः । अतीतघटे आधुनिकज्ञानेनावरण भङ्गोत्पादाभ्युपगमे तु तेन पूर्वज्ञानानतिक्रमात् तदभावस्य बाधाद्भवति तस्याप्रामाण्यमिति भावः ।
ननु विनष्टे घटे वास्तवतदाश्रयतैव कथमत आह-अतीतादेरिति । आदिना
परीक्षा
बध्नाति' इत्यादौ माषाणां प्रधानीभूतबन्धधात्वर्थव्यापारप्रयोज्यभक्षणाश्रयत्वेऽपि भक्षणस्य प्रकृतधात्वर्थ फलाश्रयत्वाभावान्न कर्मत्वस्य प्राप्तिः, यदा कृतभोजनोऽपि पयो लाभेच्छ्या पुनः पयोभोजतात्पर्येणौदनभोजने प्रवर्तते तादृशस्थले - पयसा ओदनं भुङ्क्ते इति प्रयोगो दृश्यते ; तत्र पयसः प्राप्ताऽपि कर्मसंज्ञा न भवति, पयसः साधकतमत्वविवक्षया करणसंज्ञाप्रवृत्तेः । ' स्थाल्यां पच्यते' इत्यत्राधिकरणत्वाविवक्षावत् । *उत्पत्तेरिति । उत्पत्तिरूपफलानुकूलव्यापारस्येत्यर्थः । *आवरणभङ्गेति । आवरणमज्ञानं तस्य भङ्ग इत्यर्थः । न चाज्ञानस्य ज्ञानाभावरूपतयाऽभावस्य नित्यत्वेन तद्भङ्गानुपपत्तिरिति वाच्यम् । अज्ञानस्य मायापरिणामरूपतया तस्य भावरूपत्वात् । इदं प्राचां मतेन । वस्तुतस्तु ज्ञानानुकूलव्यापार एव जानातेरर्थः । विषयता च फलतावच्छेदकसम्बन्धः ; तेन सम्बन्धेन घटादेः फलाश्रयत्वात्कर्मता । नन्वसमानकालिकपदार्थयोराधाराधेयभावविरहेणातीतानागतकर्मणः फलाश्रयत्वविरहान्न कर्म
संज्ञाप्राप्तिरत आह-*अतीतेति । तस्य- आवरणभङ्गरूपफलस्य । *अन्यथा*तयोस्तादृशफलाश्रयत्वविरहे । यथा पूर्वमिति । पदार्थाऽनतिवृत्तावव्ययीभावः । जानातीति क्रियाया विशेषणमेतत् । यथा घटादेर्विद्यमानतादशायां तस्मिन्नावरणभङ्गस्य ज्ञानेनोत्पादनं सम्भवति ; तथा तस्यातीतत्वेऽनागतत्वे वा न सम्भवत्याश्रयाभावादिति पूर्वानतिक्रान्तज्ञानाभावसत्वेनैता दृशप्रयोगापत्तिरिति । तत्राप्यावरणभङ्गाभ्यु