SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५२ दर्पणपरीक्षासहिते भूषणसारे - ज्ञानाश्रयताया नैयायिकानाभिव सत्कार्य्यवाद सिद्धान्ताद्वोपपद्यत इति । उक्तञ्च - तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ इति । ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रा दर्पण: भाविपरिग्रहः । *नैयायिकानामिवेति । यथाऽनुभवानुरोधेन तस्मिन् विषयतया ज्ञानाश्रयताङ्गीकारस्तेषां तथास्माकमपीति भावः । नन्वतीतो घटो ज्ञानविषय इति प्रतीतेरस्तु नामः तादृशघटस्य विषयतया ज्ञानाश्रयता; आवरणभङ्गाश्रयतायां तु न तथा साधकोपलब्धिरत आह-सत्कार्य्येति । तमेव दर्शयति — *उक्तञ्चेति । “सदेव सौम्येदमग्र आसीत्” इति श्रुतेः कार्य्यजातं सूक्ष्मरूपेण प्रागवस्थितमेव । परमते जनकत्वेनाभिमतसामग्रीसमवधानात्तु तदभिव्यक्ती भवति । कारणे सूक्ष्मरूपेणावस्थानमेव तत्प्रागभावः । तस्यामेवावस्थायां स भविष्यतीति व्यवहियते । ततः प्रच्युतमभिव्यक्तिलक्षणं धर्ममप्राप्तं जायत इति प्राप्ताभिव्यक्तिस्त्वस्तीति । 1 सर्वदैव सति तस्मिन् कथं नाऽस्ति नश्यतीति व्यवहारोऽत आह-तिरोभावाभ्युपगम इति । तिरोभावाभिव्यञ्जकसामग्न्या तिरोभावेऽभिव्यञ्जिते सति, नास्ति नष्ट इति व्यवहारः । लब्धक्रमायां तु तस्यां नश्यतीति सत्कार्यवादसिद्धान्तः; प्रकृते घटस्य तिरोधानेऽपि सूक्ष्मरूपेण सत्वात्तत्रावरणभङ्गरूपफलाश्रयत्वं सुलभमिति भावः । उक्तनिष्कृष्टकर्मत्वं विशदीकर्तुमाशङ्कते -*नन्विति ॥ विभागस्येत्यस्य क्रियापरीक्षा पगमे तु पूर्वाऽनतिक्रान्तज्ञानस्यैव सत्वेन न तादृशप्रयोगापत्तिरिति भावः । *नैयायिकानामिवेति । शास्त्रपुराणादिजन्यज्ञानानन्तरं नलं कलङ्किनं च जानामीत्यनुभवानुरोधेनासमानकालिकत्त्वेऽपि ज्ञानाश्रयत्वं तैर्यथा कल्प्यते । असमानकालिकयोर्नाधाराधेयभाव इत्येतद्विषयतासम्बन्धस्य यत्राधारतावच्छेदकत्वं तद्भिन्नस्थले इति वाङ्गीक्रियते तथाऽनुभवानुरोधेनावरणभङ्गोऽप्यभ्युपेयत इति भावः । सांख्यमताश्रयणेनाह*सत्कार्येति* । सत एव कार्यस्य सूक्ष्मरूपेण स्थितस्य सामग्रीवशात्स्थूलरूपेणाभिव्यक्तिरेवोत्पत्तिर्नाशोऽप्यभिव्यक्तस्य पुनः सूक्ष्मरूपेणाहङ्कारपरिणामे सत्वरूप इति हि तेषां मतम् । तन्मतेऽतीतानागतयोरपि सूक्ष्मरूपेण स्थितत्वात् नावरणभङ्गाश्रयत्वानुपपत्तिरिति भावः । तमेव मतमुपदर्शयति-उक्तञ्चेति । *भावानाम् * - पदार्थानाम् । *सैव - तिरोभावावस्थैव । *नास्तिता - नास्तीति व्यवहारविषयताश्रयः । लब्धक्रमे* — तिरोभावस्य क्रमेण प्रारम्भे । सत्कार्यवादश्च - "सदेव सौम्य इदमग्र आसीत्” इति श्रुतिप्रसिद्ध एव कारणेऽभि व्यक्तेः प्राक् सूक्ष्मरूपेणावस्थानमेव प्रागभावस्तमादाय भविष्यतीति व्यवहारः । तस्या अवस्थायाः प्रच्युतोऽभिव्यक्तिमप्राप्तो जायते इत्युच्यते । यदा तु सम्यगभिव्यक्तिस्तदाऽस्तीति कर्तृसंज्ञायाः कर्मसंज्ञावाचकत्वमजानन् शङ्कते - नन्विति* संज्ञाया बाधकत्वप्रदर्शनेनं समाधत्ते - ग्रामस्येवेति । तस्याः
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy