SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५३ सुबर्थनिर्णयः। मसंयोगरूपफलाश्रयत्वात् कर्मतापत्तौ, चैत्रश्चैत्रं गच्छतीत्यापत्तिः । प्रयागतः काशीं गच्छति चैत्रे प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्त्वादिति चेद् ? न । ग्रामस्येव चैत्रस्थापि फलाश्रयत्वेऽपि तदीयकर्त्तसंशया कर्मसंशाया बाधेन, चैत्रश्चैत्रमिति प्रयोगासम्भवात् । द्वितीयोत्पत्तो संज्ञाया एव नियामकत्वात् । अन्यथा 'गमयति कृष्णं गोकुलम् इत्यत्रेव, पाचयति कृष्णेनेत्यत्रापि कृष्णपदादु द्वितीयापत्तः।। शाब्दबोधश्चत्रश्चैत्रमित्यत्र स्यादिति चेद् ? न । तथा व्युत्पनानामिष्टापत्तेः। उच्यतां वा प्रकारतासम्बन्धेन धात्वर्थफलविशेष्य दर्पणः जन्येत्यादि । ननु कर्मसंज्ञायाः परया कर्तृसंज्ञया बाधनेऽपि वास्तवकर्मत्वस्य तत्राsबाधात् स्यादेव तादृशप्रयोगोऽत आह-*द्वितीयोत्पत्ताविति* ॥ इदं च प्रकृताऽभिप्रा. येण । कारकविभक्त्युत्पत्तिमात्रस्यव तनियम्यत्वात् । अन्यथेति* ॥ संज्ञाया अनियामकत्व इत्यर्थः॥ __अद्वितीयोपत्तेरिति ॥ गम्यति कृष्णं गोकुलमित्यत्र णिच्प्रकृत्यऽर्थव्यापारजन्यसंयोगानुकूलव्यापाररूपधात्वर्थफलाश्रयत्वस्येव, पाचयति कृष्णेनौदनमित्यत्रापिताशव्यापारजन्यविक्लित्यनुकूलव्यापाराश्रयत्वस्य तत्र सत्वादिति भावः ॥ *शाब्दबोध इति ॥ चैत्रनिष्ठसंयोगानुकूलश्चैत्रकर्तृको वर्तमानो व्यापार इति शाब्दबोध इत्यर्थः । तद्विषयस्याऽबाधादिति भावः ॥ *तथा व्युत्पन्नानामिति* ॥ सामान्यतो धात्वर्थफलविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबोधे आश्रयोपस्थितेहेतुत्ववादिनामित्यर्थः । बोधस्य स्वस्वव्युत्पत्त्यनुसारित्वादिति भावः । चत्रकर्मकचैत्रकर्तृकव्यापारशाब्दबोधस्य चैत्रो ग्रामं गच्छतीत्यादावननुभवादाह परीक्षा ननु कर्तृसंज्ञाया नियामकत्वाऽकल्पने कर्मसंज्ञाबाधकत्वमस्तु; तथापि वस्तुगत्योक्तकर्मत्वसत्वाद् द्वितीयास्यादेवेत्यत आह-द्वितीयोत्पत्ताविति । *अन्यथा. संज्ञाया नियामकत्वाऽकल्पने । *द्वितीयोपत्तिरिति । कृष्णस्योक्तरीत्या णिजन्तधातुप्रतिपाद्यप्रयोजकव्यापारजन्यफलाश्रयतया कर्मत्वापत्तौ द्वितीयापत्तिः । संज्ञाया नियामकत्वे तु “गतिबुद्धि" इति सूत्रस्य नियमार्थत्वान्न कर्मसंक्षेति न द्वितीयापत्तिरिति भावः। ननु विषयाबाधाच्चैत्रनिष्ठसंयोगानुकूलश्चैत्रनिष्ठो वर्तमानो व्यापार इत्याकारकः शाब्दबोधः स्यादित्याह-*शाब्दबोध इति । तथाव्युत्पन्नानाम्*-व्युत्पत्तिः कार्यकारणभावग्रहस्तद्वताम् । समवायसम्बन्धेन धात्वर्थफलप्रकारतानिरूपितव्यापारनिष्ठविशेष्यताशालिबोधे-आश्रयोपस्थितिः कारणमिति कार्यकारणग्रहवताम् । 'चैत्रश्चैत्रं गच्छति' इति शब्दात्तादृशशाब्दबोधाननुभवादाह-*उच्यतामिति । *फलविशेष्यकबोधं प्रतीति । फलनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबोधं प्रती
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy