________________
सुबर्थनिर्णयः। .
१४९ संज्ञायामेव तदुपयोगो, न तु वाच्यकोटौ तत्प्रवेशः। तथाच क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः। तत्वञ्चाखण्डशक्तिरूपमवच्छेदकम् । 'ओदनं पचति इत्यत्र विक्लित्याश्रयत्वात्
दर्पणः दितिभावः। ननु तर्हि क्रियाजन्यफलाश्रयः कमेंत्येव सूत्र्यतामत आह-*संज्ञायामेवेति ।
अयमाशयः-क्रियाजन्यफलाश्रयः कर्मेति सूत्रप्रणयने यद्यपीप्सितानीप्सितयोरविशेषेण संज्ञा सिद्धयति; तथापि 'अग्नेर्माणवकं वारयति' इत्यादौ क्रियाजन्यफलभागित्वेनेष्टस्य माणवकस्याऽपि विशेषविहितेन "वारणार्थानाम्" (पा० सू० १।४।२७) इत्यनेनापादानसंज्ञा प्रसज्ज्येत । सूत्रं तु 'हरिं भजति इत्यादौ चरितार्थम् । तत्परिहारायेप्सिततमत्वस्य संज्ञिकोटौ निवेशे अप्राप्तद्वेष्योदासीनसंज्ञाविधानार्थमुत्तरसूत्रमिति तथा नोक्तमिति । ननु तथापि पञ्चम्या इव न द्वितीयाया अप्याश्रयमानार्थकता, किन्तु विशिष्टस्यैवेत्यत आह-*तथाचेति । आश्रय एवेत्येवकारेण विशिष्टार्थस्य शक्यत्वव्यवच्छेदः। नन्वाश्रयत्वस्य तत्तत्स्वरूपात्मकस्य तत्तदाश्रयभिन्नत्वात् कथं तस्य शक्यतावच्छेदकत्वम् । अनुगतधर्मस्यैव तत्त्वादत आह-*तत्वञ्चेति* । आश्रयत्वं चेत्यर्थः । *अखण्डशक्तिरूपमिति* । शक्तिधर्मः । इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत्। आश्रय इत्यनुगतव्यवहागदाश्रयपदे शक्यतावक्छेदकत्वाच्च तत्सिद्धिर्द्रव्यत्वादिवदिति भावः ॥
नैयायिकास्तु-आश्रताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वाऽसम्भवः । शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादी व्यभिचारेण नाऽखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोऽर्थः। तस्य प्रकृत्यैव लाभात् ; प्रकृत्यर्थभिन्नत्वेन तत आश्रयस्याऽननुभवाच्च । किन्तु फलान्वयिनी कृतिरेव तदर्थः । “कर्मणि द्वितीया" इत्यस्य फलनिष्ठाऽऽधेयत्वान्वये प्रकृतितात्पय्ये तदुत्तरं द्वितीयेत्यर्थात् न तदूविरोधोऽपि । अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिमाहकत्वाच्च न तद्वैय्यर्थ्यम् । आश्रयत्वं तु न तच्छक्यम् । तस्य निरूपकतासम्बन्धेनैव फलाऽन्वयित्वस्याभ्युपगन्तव्यतया निरूपकत्वस्य च वृत्त्यनियामकतयाऽभावप्रतियोगिताऽनवच्छेदकत्वेन 'विहगो भूमिं गच्छति, न महीरुहम् इत्यादौ धात्वर्थफले संयोगे महीरहनिष्ठाश्रयतायास्तेन सम्बन्धेनाभावस्याऽप्रसिद्धतया तत्राबोधत्वाऽसम्भवात्। न च सूत्रस्वरसभङ्गः। शक्तिः कारकमितिपक्षे तदयोगात् । आधेयताया अपि निरूपकतया कारकधर्मत्वादित्याहुः ॥
विक्लित्त्याश्रयत्वात्कर्मतेति । कर्मसंज्ञेत्यर्थः । एतेन कर्तगतप्रकृतधात्वर्थव्यापारप्रयोज्यतव्यधिकरणप्रकृतधात्वर्थफलाश्रयत्वं कर्मत्वमुक्तम्भवति । यदू वक्ष्यति
परीक्षा *संज्ञायामेव तदुपयोग इति । अयम्भावः-क्रियाजन्यफलशालिकमेंत्युक्तावपि सूत्रदृष्टफलं यद्यपि सिध्यति, तथापि "वारणार्थानाम्" इति सूत्रं निरवकाशः स्यादिति वारणयोगे-'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्य कर्मत्वन्न स्यादत इच्छाऽर्थकसन्घटितं पूर्वसूत्रमारब्धम् । तथाच द्वेष्योदासीनसंग्रहार्थे "तथा युक्तम्" इत्यस्य आरम्भ इति । तथाच*-क्रियाजन्यफलाश्रयत्वस्य कर्मत्वरूपत्वे च । *तत्वम्*आश्रयत्वम् । *अखण्डशक्तिरूपम्*-अखण्डोपाधिरूपम् । इतरपदार्थघटितमूर्तिकध