SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४८ दर्पणपरीक्षासहिते भूषणसारे "तथा युक्तञ्चानीप्सितम्" (पासू० १४५०) इत्यादिसंग्रहाच्चैवमेव युक्तम् । ईप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन दर्पणः व्याप्तुमिष्यमाणतमं व्यापारजन्यफलसम्बन्धित्वप्रकारककर्तुनिष्ठोत्कटेच्छाविषयः कति पर्यवसानात् क्रियाजन्यफलाश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मीभूतार्थधातोरेव “धातोः कर्मण” इति सूत्रेणेच्छायां सनो विधानाद् व्याप्तीच्छार्थकसन्नन्तधातुना व्याप्तिरूपकर्मोपसंग्रहान्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसंग्रहीतकर्मत्वमित्यत्र कर्मणा तद्धात्वर्थीयकर्मान्तरानाकाङ्क्षात्वविशेषेण सन्प्रकृतिधात्त्वर्थकर्मणः कर्मान्तरसाकाङ्कत्वेनोक्ताऽकर्मकत्वस्य सन्नन्ते असम्भवात् । एवं सन्नतस्य वृत्तितया तद्घटककर्माऽऽदाय कर्मसंज्ञाकान्वय्यर्थकत्वरूपसकर्मकत्वाभावेऽपि तबहिर्भूतकर्मान्वयित्वमादायैव सकर्मकत्वं बोध्यम् । एवं फलतावच्छेदकसम्बन्धेन तद्धात्वर्थफलव्यधिकरणव्यापारवाचकत्वरूपं तदपीतिनेप्सेत्यादितः कर्मप्रत्यायानुपपत्तिः । जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पादिकर्मान्तरसाकानत्वमस्त्येव । गन्धनिरूपितलौकिकविषयतायां पुष्पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनाऽन्वयेनाऽकर्मत्वात् । - 'कृष्णाय राध्यति इत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान्न धात्वर्थान्तर्भूतशुभकर्मणः कर्मान्तरसाकासत्वमिति न तत्रातिप्रसङ्गः। बुभूषत्यादीनां तु भवनाऽऽदिकर्मणः कर्मान्तरानाकाङ्क्षस्य धात्वर्थतावच्छेदककोटिप्रविष्टत्वादकर्मकत्वं व्यक्तमेव । एवं स्वर्यत इति भाष्यप्रयोगस्थस्वरवदूरूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृतिकर्मसाकाङ्क्षातया, करोत्यर्थणिजन्तात् कर्मप्रत्ययोपपत्तिरिति बोध्यम् ॥ केचित्तु-सनाद्यन्तस्य धात्वर्थोपसगृहीतत्वेनाऽकर्मकत्वेऽपि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात् कर्मप्रत्ययोपपत्तिमाहुः। ननु तथापीष्टाऽघटितस्य भवदुक्तस्य कथं कर्मलक्षणत्वमत आह-*तथा युक्तमिति* ॥ कर्मव्यवहारस्य द्वेष्योदासीनयोरप्यविशिष्टत्वात्तत्साधारणस्यैव लक्षणत्वमुचितम् । इच्छाघटितस्यैव तस्य लक्षणत्वे तु द्वेष्यादिकर्मण्यव्याप्तिः स्यात्। तथाव तत्साधारण्यायेदमेवाश्रयितुं युक्तमिति भावः । *एवमेवेति । इत्थमेवेत्यर्थः। ननु द्वितीयाया उक्तकर्मार्थकत्वे, हरिं भजतीत्यादौ हसंदेरीप्सितत्वादिना भानाऽनुपपत्तिरत आह-ईप्सितानीप्सितत्वयोरिति* *भानाऽभावेनेति । सार्वजनीनतयानुभवा परीक्षा त्वम् । एतेन कर्त्तवृत्तिव्यापारजन्यफलवत्वेनेच्छाविषयत्वलाभः । नचेच्छाकर्मार्थकधातोरिच्छायां सनो विधानाव्याप्तिरूपकर्मणोऽन्तर्भावादकर्मकत्वापत्तिरिति कथं सन्नतात्कर्मणि प्रत्यय इति वाच्यम् ? एकस्य कर्मणोऽन्तर्भावेऽपि बहिर्भूतकर्मसाकाङ्कत्वेन सकर्मकत्वोपपत्तेः। 'पुष्पं जिघ्रति' इत्यत्र घ्राधातोरिव । यद्वा सन्नन्तस्याकर्मकत्वेऽपि सन्प्रकृतेः सन्कर्मकतया कर्मान्वयसम्भव इति बोध्यम् । - नन्वेवमिच्छाघटितमेव कर्मत्वलक्षणमस्तु, इच्छाया निवेशमकृत्वा किमेतादृशकर्मत्वलक्षणेनेत्यत आहु--*तथायुक्तमिति । एवमेव*-इच्छाघटितमेव । नन्वेवं सति 'हरिं भजति' इत्यादौ कर्मणो भानमिच्छाघटितरूपेण न स्यादत आह-ईप्सितेति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy