________________
२४६
दर्पणपरीक्षासहित भूषणसारेविशिष्टशक्त्यस्वीकारे 'राज्ञः पुरुष' इत्यत्रेव 'राजपुरुष' इत्यत्राऽपि स्याद् विशेषणाद्यन्वयः । राजपदेन स्वतन्त्रोपस्थितिलस्वात् । विभाषावचनञ्च समासनियमवारणाय कार्यमिति ।
ननु “सविशेषणानाम्” इतिवचनान्न विशेषणाद्यन्वयः, विभाषावचनश्च कृतमेवेत्याशङ्कां समाधत्ते--*वचनैरेवेति । न्यायसिद्धमेव सूत्रम् । व्यपेक्षाविवक्षायां वाक्यस्य, एकार्थीभाव समासस्येति स्वभावत एव प्रयोगनियमसम्भवात् । सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थकदेशतयान्वयासम्भवान्यायसिद्धमिति भावः।। ___ अत एव व्यपेक्षापक्षमुद्भाव्य, “अथेतस्मिन् व्यपेक्षायां सामध्ये योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः” इति भाष्यकारेण दूषणमप्युक्तम् ॥ ३२ ॥
तथा धवखदिरौ निष्कौशाम्बिोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयोग-अतिक्रान्तयुक्तपूर्ण-मिश्र-सङ्घात-विकार-सुच्प्रत्ययलोपो-वीप्साद्यर्थो पाचनिको वाच्य इत्यतिगौरवं स्यादिति दूषणान्तरमाह
. दर्पणः इत्यादिभिरित्यर्थः। उक्तार्थमेव प्रकटयति-*अयम्भाव इति* । *न्यायसिद्धमेव सूत्रमिति । इह व्यपेक्षायां समासो न भवत्येकार्थीभावे वाक्यं न भवति । विभिन्नवि. षयत्वेन बाध्यबाधकभावाऽसम्भवादिति न्यायसिद्धविभाषावचनं नाऽपूर्वमित्यर्थः । तदुक्तं भाष्ये-"न संज्ञाया भावाऽभावाविष्येते” इति । एकार्थानां विकल्पनानाऽर्थो विकल्पेनेति तद्भावः। .. *अन्वयासम्भवादिति । वृत्तौ झुपसर्जनपदेन प्रधानार्थाऽभिधायिना भाव्यम् । स्वस्य विशेषणाऽऽक्षायां च प्राधान्यमिति कथमेकदा प्राधान्यमेकार्थीभावश्च स्यात्, युगपद्गुणप्रधानभावविरोधादिति न्यायसिद्धमेवेत्यर्थः । *अत एवेति । व्यपेक्षावादस्याऽऽपातरमणीयत्वादेवेत्यर्थः । *दूषणमप्युक्तमिति । अस्य नानाकारकत्वान्निघातयुष्मदस्मदादेशप्रतिषेधः । अयं दण्डो हरोऽनेनेत्यादिनेति शेषः ॥ ३२ ॥
__ परीक्षा प्वेव राजादिपदार्थ संख्याविशेषस्यान्वयस्यायोग इत्यर्थः। *समासनियमेति । स. मासस्य नित्यत्वेत्यर्थः । अस्माकन्तु वक्ष्यमाणरीत्या तन्नापूर्वमिति भावः । । ___*एव सूत्रमिति*-"विभाषा"इति सूत्रमित्यर्थः । *अन्वयासम्भवादिति । पशुभेदसत्वेन पशुरपशुरिति वाक्यस्य प्रामाण्यापत्तिवारणायैकपदार्थनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधे पदान्तरजन्यार्थोपस्थितिर्मुख्यविशेष्यतासम्बन्धेन कारणमिति कार्यकारणभावात्कारणबाधेनान्वयासम्भवादित्यर्थः। *अत एव*-व्यपेक्षापक्षे गौरवादेव ॥ ३२ ॥
कैयटोक्तदूषणमाह-*तथेत्यादिना*। *लोप इति । विग्रहवाक्ये निष्क्रान्तः