________________
- समासशक्तिनिर्णयः।
२४५ ." साधकान्तरमाह--*बहूनामिति* । वृत्तधर्मा विशेषणलिङ्गसंख्याधयोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः । अयम्भावः
दर्पणः विधेश्चारितार्थ्यादिति भावः ॥
ननु प्रतिबन्देरनुत्तरत्वं । किञ्च पङ्कजपदे लक्षणाऽपि न सुवचा । तथाहि-सा किं पङ्कजपदे, उत तदवयव-डप्रत्यये । न तावदाद्यः । समुदाये शक्त्यभावेन तद्घटितलक्षणाया अप्यसम्भवात् । किञ्च जहत्स्वार्थायास्तस्यास्तत्राऽसम्भव एव । अवयवार्थविरोधिन्या रूढेरभावात् ।
___ जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी । इत्यभियुक्तोक्तेर्यथा-मण्डपं भोजयेत्यत्र मण्डपपदस्य गृह्यविशेषे रूढियोगविरोधिनी। रूढयर्थग्रहे मण्डपानकर्त्तत्वरूपयोगार्थस्य बाधात्तत्र 'रूढेोगापहारिता' इति प्रवादादवयवशक्त्या मण्डपानकर्तुर्बोधाऽसम्भवान्मण्डपपदस्य मण्डपानकर्त्तरि लक्षणा । तथाच तत्र रूढ्यर्थग्रहसम्बन्धितावच्छेदकतया गृहीतचैत्रत्वादिनैव तद्बोधो न मण्डपानकर्त्तत्वेन । न च तथा प्रकृते । पदमत्वे लक्षणायामवयवार्थस्याभावेनाजहत्स्वार्थाया अप्यसम्भवाच्च । जहत्स्वार्थात्ववयवाऽर्थप्रतीत्यनुपपत्त्यान वक्तुं शक्या।
नान्त्यः । प्रकृत्यर्थस्यानन्वयापरः। तदर्थे प्रत्ययस्यासाधुतापत्तेश्चेति लक्षणानवसरादनायत्त्या तत्र विशिष्टशक्त्यभ्युपगमः ॥ "राजपुरुष” इत्यादौ तु प्रत्येकपदवृत्याऽपि विशिष्टाऽर्थबोधनिर्वाहे समुदायशक्तिकल्पनं तत्राऽनुचितमेव । नापि रथकाराधिकरणविरोधः । यौगिकाऽर्थस्थकरणनिमित्ते वर्षविधानस्य सङ्करस्य विशिष्टाधानाऽपेक्षया लघुत्वेऽपि, “ऋभूणां त्वा देवानगम्" इति मन्त्रवर्णाहभुसौधन्वनपर्यायप्रतिलोमजातिरथकारस्यैव तदधिकाराबगत्या लाघवाऽनादरेण रूढाऽर्थे तत्र वि. शिष्टाधानकल्पनात् । _ नचापूर्वविद्याध्ययनकल्पनागौरवम् । फलमुखत्वात् । प्रकृते राजपुरुषादिसमुदाये शक्तिग्राहकं न तादृशं कोशादि, येन तबलादवयवार्थः। परित्यज्येतेत्याशयेन मूलमवतारयति-*साधकान्तरमिति* ॥ *लिङ्गेति* ॥ कुक्कुटाण्डमित्यादौ कुक्कुटपदाथें स्त्रीत्वस्याप्रतीतेरिति भावः ॥ *सङ्ख्येति* ॥ “राज्ञो राज्ञां वा पुरुषः, इति वाक्ये उपसर्जनपदानि संख्याविशेषयुक्तस्वार्थमभिदधति समासे त्वन्तर्भूतस्वार्थ प्रधानार्थमभिदधति" इति भाष्यात्तत्र सन्याविशेषस्याऽप्रतीतेरिति भावः ॥ सङ्ख्यादीत्यादिपदादू "इमे तहोंका भावकृता विशेषाः, सङ्ख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चाऽयोगे” इति भाष्योक्तस्य, राज्ञो गवाञ्चपुरुषा देवदत्तयज्ञदत्तविष्णुमित्राणां गौरित्यादौ चाऽयोगस्य च सङ्ग्रहः । *वचनैरिति । “सविशेषणानां वृत्तिन,
परीक्षा कल्पनम् । विनैव शास्त्रस्य सङ्कोचम् ब्राह्मणविषयकत्वेन विधेश्चारितार्थ्यसम्भवादिति भावः । ननु प्रतिबन्ध्यानुत्तरत्वमत आह-*साधकान्तरेति । विशिष्टशक्त्यंशे सा. शुक्रान्तरमित्यर्थः । *विशेषणेत्यादि । स इत्यादि पदान्तद्वन्द्वेन योगपदस्य षष्ठीसमासः, राजपुरुष इत्यत्र राज्ञि ऋद्धस्येत्यस्य विशेषणस्य कुक्कुटाण्डमितिसमासे मृग. क्षीरमिति समासे च पूर्वपदार्थे लिङ्गस्य स्त्रीत्वस्य संख्याया राजपुरुष इत्यादि