________________
२४४
दर्पणपरीक्षासहिते भूषणसारेतथोपस्थितिरिति चेत्, पङ्कजपदेऽपि सा सुवचा। एवंरथकारपदेऽपि।
तथाच “वर्षासु रथकारोऽग्निमादधीत" इत्यत्रापि विना लक्षणां क्लप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्वविद्याकल्पनमयुक्तं स्यादितिभावः ।
दर्पणः *तथोपस्थितिरिति* ॥ स्वामित्वादिना स्वाम्याधुपस्थितिरित्यर्थः ॥ *सुवचेति ॥ पद्मत्वादिनोपस्थितिरपि लक्षणयेति वक्तुं शक्यमित्यर्थः । अधिकरणविरोधमपि तत्राह-*एवमिति ॥ *लक्षणामिति ॥ निरूढलक्षणामित्यर्थः । तस्याः शक्ति. समकक्षत्वादिति भावः। *योगेनेति ॥ प्रत्येकपदवृत्त्युपस्थाप्यस्थकर्तृत्वेनेत्यर्थः । *उपपत्ताविति ॥ शास्त्रसङ्कोचमन्तरेणाऽप्यनुष्ठाननिर्वाह इत्यर्थः ॥ *तत्कल्पना. मित्यादि* ॥ रूढिकल्पनामित्यर्थः। तां कल्पयित्वेति यावत् । *जातिविशेषस्येति ॥
रथकारस्तु माहिष्यात् करिण्यां यस्य सम्भवः । इति स्मृतिसङ्केतितजातिविशिष्टस्येत्यर्थः ॥ *अयुक्तमिति* । विनैव शास्त्रसङ्कोचं
परीक्षा कल्पनीया । तथाच गौरवं स्फुटमेव, अत एव “बाधकं विना व्यक्तिवचनानां सन्निहितव्यक्तिपरत्वम्" इति नियम उपपद्यते, व्यक्तिवचनानाम्-किञ्चिद्व्यक्तितात्पर्यकाणां शब्दानां सन्निहितो यो व्यक्तिविशेषस्तत्परत्वमित्यर्थः। सच्छिद्रघटसन्निधाने घटेन जलमाहर इतिशब्दात्सच्छिद्रघटबोधापत्तिवारणाय बाधकम्विनेति । तथाच पदूमे तात्पर्य्यस्य सत्वेन तदेव प्रतीयतेन कुमुदम् , प्रथमकल्पस्तु न युक्तः। रूढिज्ञानस्य ग्राह्यभावानवगाहितया जनकज्ञानाविशेषित्वाच्चेति समुदायशक्तिस्वीकर्तृणामस्माकं वृत्तिवाक्ययोरेतावान् विशेषः । वृत्तेर्यत्र पदार्थोपस्थितिस्तत्र सम्बन्धांशे नियमत उद्बोधकसमवधानेन सम्बन्ध उपस्थितो भवतीति विशिष्टबोध एव भवति । वाक्यस्थले तु सम्बन्धांशे नियमत उद्बोधकसमवधानाकल्पनेन पृथगुपस्थितयोः संसर्ग इति सा सुवचेत्यनेन नैयायिकसिद्धान्तविरोधो लक्षणास्वीकार इति न तत्र लक्षणा किन्तु विशिष्टशक्तिरेवेति तद्दृष्टान्तेन वृत्तिमात्रे समुदायशक्तिरित्यभिहितम् । *एवम्-पजपदवत् , *रथकारपदेऽपीति । समुदायशक्तिरेवेतिशेषः। ___ *तथाचेति । चो वाक्यालङ्कारे तथात्र योगमात्रकल्पने। विना लक्षणामिति* तन्मताभिप्रायेण । तन्मते समुदायशक्त्यभावेन लक्षणयैव जातिविशेषावच्छिन्नोपस्थितिर्वाच्या, सातु लक्षणान स्वीकार्येति भावः। *तत्कल्पनाम्*-निरूढलक्षणाकल्पनाम् । उपपत्तिश्च-स्त्रीशूद्रौ नाधीयाताम् इति शास्त्रसङ्कोचं विनाऽप्यनुष्ठानविशेषस्य द्रष्टव्या। *जातिविशेषस्य*-जातिविशेषावच्छिन्नस्या रथकारो*-माहिष्येण करिण्यामुत्पन्नः । “माहिष्येण करिण्यान्तु रथकारः प्रजायते-" इति स्मृतेः । राजन्येन वैश्यायामुत्पादितो माहिष्यः । वैश्याच्छूद्रायामुत्पन्ना करिणी, नचास्य जात्यन्तरविशिष्टत्वात् “स्त्रीशूद्रौ” इतिनिषेधविषयता कथमिति वाच्यम् ? अनुलोमसङ्कराणां मातृजातिवृत्तित्वात् । अत एव शङ्खस्मृतौ ब्राह्मणक्षत्रियवैश्यैः क्षत्रियावैश्याशूद्रासूत्पनाः, क्षत्रियवश्यशूद्रा एव भवन्तीत्युक्तम् । एताश्च ब्राह्मणादिविवाहिता बोध्याः। विशेषविधिरिति याज्ञवल्क्यस्मृतेः । *अपूर्वविद्याकल्पनम्*-आधानोपयोगिविद्या