SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। २४३ तुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्तृणां व्यपेक्षावादिनां मते दूषणं शक्तिसाधकमेवेत्याशयेनाह-*पङ्कजशब्दवदिति* ॥ पङ्कजनिक रपि योगादेवोपस्थितौ तत्राऽपि समुदायशक्तिर्न सिद्ध्येत । न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव दर्पणः शक्त्यैव राजादिपदादाजादेरुपस्थितिसम्भवेन तत्र समुदायशक्तिकल्पने गौरवाच्च । नामाऽर्थयोरभेदान्वय इत्यादिव्युत्पत्तयश्च पृथगुपस्थितनामार्थविषया इति ॥ ____ जहत्स्वार्थवृत्तिपक्षे पङ्कजशब्दस्य पूर्वोक्तरीत्या दृष्टान्तत्वासम्भवेनाऽन्यथा मूल. मवतारयति-विशिष्टशक्त्यस्वीकर्तृणामिति ॥ *साधकमिति। विशिष्टशक्तिसाधकमेवेत्यर्थः। व्यपेक्षावादिनये 'राजपुरुष' इत्यादौ प्रत्येकपदवृत्त्या पदार्थो. पस्थितावाकाङ्क्षादिवशात् विशिष्टार्थबोधवत् पङ्कजपदादपि तथैव विशिष्टार्थोपस्थित्या रूढेरुच्छेदापत्तिः न च सा तवेष्टेत्याह-*पजनिक रपीति* ॥ तेन रूपेण पदमस्यापीत्यर्थः ॥ *योगादेवेति ॥ अवयवशक्तेरेवेत्यर्थः ॥ *तत्रापि*-पङ्कजादिपदेऽपि । तत्र तत्स्वीकारे तु किमपराद्धं समासे विशिष्टशक्त्येति भावः। *सा*-समुदायशक्तिः । *तत्कल्पनस्य*-रूढिकल्पनस्य चेत्यर्थः । परीक्षा पदविधिसहचरितोऽपि विधिः, पदविधिशब्देन गृह्यते । *शक्तिसाधकमिति । अस्माकं मत इत्यादिः। पङ्कजशब्दवदित्यत्र सप्तम्यन्ताद्वतिः । *तत्रापि*-पङ्कजादिशब्देऽपि । *तत्-समुदायबोधकम् । पदार्थोपस्थितिः शक्तिसाध्या । यदि समुदायस्य पनत्वावच्छिन्ने शतिर्न स्यात्तदा ततो रूढ्या पद्मत्वावच्छिन्नोपस्थितिनं स्यात् । *स्वामित्वेन*-चित्राभिन्नगोस्वामित्वेन। *तत्कल्पनेति । तस्याः समुदायशक्तः कल्पनेत्यर्थः। परसम्मतम्पक्षमनूच दूषयति-*लक्षणयैवेति । सा-लक्षणा । चित्रुगुरित्यत्र यथा गोशब्दस्य चित्रगोस्वामिनि लक्षणा; चित्रपदं तात्पर्यग्राहकमिति तथात्र प्रत्ययस्य पदमत्वावच्छिन्ने लक्षणा । एतावताऽपि योगमात्रेण कुमुदबोधन भविष्यतीति भावः। नत्र पहजेतिसमुदायस्य शक्तिस्वीकारेऽप्यवयवशक्त्या कुमुदबोधे किम्बा. धकमितिबाच्यम् ? केवलयौगिकार्थबोधे समुदायशक्तिज्ञानस्य प्रतिबन्धकत्वस्य :यद्वा रूढयर्थयोगार्थयोरुपस्थितयोरेकविशिष्टेऽपरवैशिष्टयमितिरीत्या रूढ्यर्थताव. छेदकावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नयोगार्थप्रकारताकशाब्दबुद्धिम्प्रति ताशसामग्र्या नियामकत्वं कल्प्यते। तावतैव केवलयौगिकार्थबोधो न । 'रूढियोगापहारिणी इति प्रवादस्तु. शुद्धरूढस्थले; न तु योगरूढस्थले । यथा-मण्डपप्रवी. णादिपदायारूढयर्थस्योपस्थितिः, तत्र न रूढयर्थे योगार्थान्वयः। तत्रास्ति रूठेोगाप. हारकत्वव्यवहारः । स प्रतिबध्यप्रतिबन्धकमावनिबन्धनो नः किन्तु अटित्युपस्थितसमुदायार्थेऽवयवार्थस्याभेदापादनक्षम एव । किञ्च मणिमन्त्रादिन्यायेनैव प्रतिबन्धकता कल्पनात् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy