________________
२४२
दर्पणपरीक्षासहिते भूषणसारे:- समास इति वृत्तिमात्रोपलक्षणम् । “समर्थः पदविधिः" (पा०सू० २।१।१) इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः । विग्रहवाक्यार्थाऽभिधाने शक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तधा
-
तवा
त्वादित्यर्थः । *वृत्तिमात्रेति* । मात्रपदं कृत्स्नार्थकम् । अहजत्स्वार्थलक्षणया वृत्तिपञ्चकोपस्थापकमित्यर्थः। *वाक्याभिधान इति। तदर्थाभिधान इत्यर्थः । *भाष्यादित्यस्य । समर्थानां पदवचनमित्यादिः।
मूले, *पङ्कजशब्दवदिति ॥ सप्तम्यन्ताद्वतिः । उपमेये सप्तमीदर्शनात् । पङ्कज. शब्दे यथाऽवयव शक्त्यतिरिक्तशक्तिस्तद्वत्समासेऽपीत्यर्थः । न च पङ्कजपदे रूढिस्वीकारे मानाभावः । समुदायात् पद्मत्वविशिष्टप्रतीतेरेव मानत्वात्। पदानियतोपस्थिते रूढयैकसाध्यत्वात् पङ्कजपदादू योगेन कुमुदस्यापि बोधप्रसङ्गाच्च । रूढिस्वीकारेऽप्युद्भित्पदेन वृक्षादेरिव योगेन पङ्कजपदेन कुमुदमपि बोध्यत इति तु नः यत्र योगरूढिभ्यामेकार्थबोधस्तत्र केवलयौगिकार्थबोधे रुटेः प्रतिबन्धकत्वकल्पनात् ।। ... अथवा रूढ्या नियमतः स्मृतपद्ममेव कर्तृव्यक्तिशक्तडप्रत्ययेन पङ्कजनिकर्त्ततया बोध्यते "बाधकं विना व्यक्तिवचनानां सन्निहितव्यक्तिविशेषपरत्वम्" इति नियमादू व्यक्तिवचनानां यत्किञ्चिव्यक्तितात्पर्य्यकाणां सन्निहितो यो व्यक्तिविशेषस्तत्परत्व. मिति तदर्थः । “घटेन जलमाहर” इत्यत्र सन्निहितसच्छिद्रव्यक्तिबोधवारणाय*तत्र बाधकं विनेति । ___ तथाच पदमे तात्पर्यसत्त्वेन तदेव योगेनाऽपि प्रतीयते, न कुमुदम् । प्रथमकल्पस्तु रूढिज्ञानस्य ग्राह्याभावानवगाहित्वाजनकज्ञानाऽविघटकत्वाच्च प्रतिबन्धकत्वाऽसम्भवान्न क्षोदक्षमः । सिद्धरनायत्या मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वाभ्युपगमेऽप्यन्यत्र तत् कल्पने मानाभावात् । इत्थञ्च पदमानुभवसामग्रीसत्त्वात् तस्यैव बोधो, न कुमु. दस्य सत्यां हि सामग्यां फलाऽनुत्पादे प्रतिबन्धकत्वापेक्षणादिति तार्किकाः । तदृदृष्टान्तेन वृत्तिसामान्ये समुदाये शक्तिरावश्यकीति कथने पूर्वोक्ताऽर्थ एव पर्यवस्यतीति ।
नवजहत्स्वार्थवृत्तिकल्पे विशिष्टशक्तेः सम्बन्धांशे विरामस्योक्तत्वाद्वाक्येऽपि सम्बन्धांशे एव तैः स्वीकारात् को वृत्तिवाक्ययोर्वेयाकरणनये विशेष इति चेदबाहुः । तत्र हि फलबलात् पदार्थोपस्थितिकाले नियमतः सम्बन्धांऽश उद्बोधकासमवधानक ल्पनेन पृथुगुपस्थितयोः पदार्थयोः संसर्गबोधः । वृत्तौ तु पदार्थोपस्थितिसमकाल. मेव नियमतः संसर्गाशे उदबोधकसमवधानकल्पनाद् विशिष्टाऽर्थोपस्थिरिति वैलक्षण्योपपत्तेः । अत एव प्राप्तोदकादौ विशेष्यविशेषणभाववैपरीत्ये तु न बोधः । तत्राप्र. युज्यमानद्वितीयाऽर्थः सम्बन्धश्चोभयं समुदायशक्तिसाध्यमनन्यलभ्यत्वात् । कलप्त
परीक्षा *वृत्तिमात्रेति । अत्र मात्रपदं कात्स्र्नार्थकम् । तथाच समासपदस्याजहत्स्वार्थलक्ष-णया 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्रेव वृत्तिपञ्चकबोधकतेति बोध्यम् । पदविधिशब्दार्थमाह-*पदमुद्दिश्येति । पदस्य विधिरितिविग्रहे या षष्ठी सोद्देश्यत्वार्थिकेति