________________
समासशक्तिनिर्णयः ।
इत्याशयेनाह-*संसर्ग इति ॥ विनिगमनाविरहम्, अस्वामिकेऽपि राजपुरुष इत्यादिप्रयोगापत्तिश्च मनसि कृत्वोभयं वाच्यमित्याह*उभयं वेति । तथाचाऽराजकीयभिन्नो राजसम्बन्धवांश्चायमिति बोधः ॥ ३१ ॥
व्यपेक्षावादस्यैव युक्तिभाष्यविरुद्धत्वात् तन्मूलकः पूर्वपदाऽर्थप्रधान इत्याद्युत्सर्गोऽप्ययुक्तः । किन्तु रेखा गवयन्यायेनोत्सगोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३२ ॥ बहूनां वृत्तिधर्माणां वचनैरेव साधने स्यान्महद् गौरवं तस्मादेकार्थीभाव आश्रितः ||३३||
दर्पणः
२४१
न्याभाव इति ॥ *संसर्ग इति । भेदाऽविनाभावित्वादनुमीयमानभेदो — भेदमूलकः संसर्ग इत्यर्थः ।
वस्तुतस्तु “भेदसंसर्गे वा सामर्थ्यम्” इति भाष्यस्य राजादिपदसमभिव्याहृतपुरुषादिपदेन राजादिविशिष्टपुरुषादिरूपविशिष्टाऽर्थस्यैव बोध इत्यभिप्रायः । न तु भेदे पृथक्शक्तिबोधकं तत् । तादृशबोधाननुभवात् । रामकृष्णावित्यादिद्वन्द्वे भेदस्य वाच्यतया दुरुपपादत्वाच्चेति ॥ ३१ ॥
*व्यपेक्षावादस्येति । अव्यवहितोक्तविधया वर्णितस्येति शेषः । उक्ताऽजहस्वार्थपक्षस्य तु निर्दुष्टत्वमेवेति भावः । *एवं युक्तीति । उक्तवक्ष्यमाणेत्यर्थः । *भाष्येति* । “नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः" इत्यादिभाष्यदूषित
परीक्षा
विशिष्टपुरुषादिविषयक एव बोधः । भेदस्य भानन्तु सर्वत्र न सम्भवति, धवखदिरावित्यादावुभयपदार्थयोः समत्वादिति बोध्यम् । नचान्योन्याभावभानानुपगमे राजपुरुष इति समुदायजन्यशाब्दबोधस्या राजकीयत्वप्रकारकज्ञानं प्रतिबन्धकत्वन्न स्यादिति वाच्यम् । अराजकीयत्वस्य राजसम्बन्धावच्छिन्नप्रतियोगिताकभेदरूपतया अराजकीयत्ववद्राजसम्बन्धरूपत्वेन तत्प्रकारकज्ञानस्य प्रतिबन्धकत्वसम्भवात् । राजपुरुषो देवदत्तस्य चेतिप्रयोगस्य वारणन्तु तेन सम्बन्धेनैकविशेषणविशिष्टे विशेष्ये तत्सजातीयसम्बन्धेन विशेषणान्तरान्वयबोधो नेत्याश्रयणाद्बोध्यः ॥ ३१ ॥
परम्परया वृत्तिवाच्यार्थबोधकविग्रहवाक्ये यो राज्ञ इत्यादेरर्थो। दृष्टस्तस्य सत्वदर्शनमात्रेण बोधक इत्येवम्परम्परा भिन्नैवेति । राजपुरुष इत्यादिसमुदायस्य राजसम्ब-न्धवत्पुरुषादौ शक्तिः, अवयवशक्तितो भिन्ना । पङ्कजादिशब्दस्य पद्मत्वाद्यवच्छिन्ने शक्तिः परनयेऽप्यस्तीति तस्या दृष्टान्तत्वेनोपन्यासः - पङ्कजशब्दवदिति । *वृत्ति-धर्माणामिति । वक्ष्यमाणानामितिशेषः । *वचनैः - सविशेषणानामित्यादिवचनैः ।
३१ द० प०
.