________________
२४०
दर्पणपरीक्षासहिते भूषणसारेनचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः। “सविशेषणानां वृत्तिन वृत्तस्य वा विशेषणयोगो न" इति वातिकात् । तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वाद् पूर्वपदार्थप्रधान इत्यादिव्यवस्था सूपपादेति भावः ।
प्रसङ्गाद् वृत्तिभेदमपि निरूपयति-*ते पुनरिति* ॥ द्वे अपि वृत्ती त्रिविधे वाच्यत्रैविध्यात् । वाच्यमेवाह-*भेद इत्यादि* ॥ भेदःअन्योन्याभावः । तथाच-राजपुरुष इत्यादावराजकीयभिन्न इति बोधः । अस्यावाच्यत्वे च राजपुरुषः सुन्दर इतिवद्, राजपुरुषो देवदत्तस्य चेत्यपि स्यात् । वाच्यत्वे तद्विरोधान्नैवं प्रयोग इति भावः । राजसम्बन्धवानित्येव शाब्दं भानम् , भेदस्तूत्तरकालमुपतिष्ठत
दर्पणः अयमभिप्राय इत्यादिनोक्त एवेत्यर्थः । भाष्यकारैरित्यस्य परस्परव्यपेक्षां सामर्थ्य मेक इत्यादिनेति शेषः । उक्तापत्तिमुद्धरति-*नचात्रेति । *अन्वयापत्तिरिति । यथाश्रुताऽभिप्रायेण सम्बन्धिलक्षणायामापत्तेरभावस्य वक्ष्यमाणत्वात् ॥
*प्रसङ्गादिति । स्मृतिकालाऽवच्छिन्नोपेक्षानर्हताऽवच्छेदकधर्मवत्त्वादित्यर्थः । श्वृत्तिभेदमिति । वृत्तेः समासादिवृत्तभेदं भेदसंसर्गादिरूपाऽर्थकृतमित्यर्थः। तदुक्तं भाष्ये-“सामर्थ्य नाम भेदः संसर्गो वा। अपर आह-"भेदसंसर्गो वा सामर्थ्यम्" इति । यदि वृत्ता भेदसंसर्गो न स्याताम् , तदा सामर्थ्यमेव न स्यात्तदात्मकत्वात्साम. र्थ्यस्येत्यतस्तदर्थकत्वं तस्येति तद्भावः । *भेद इति । संसर्गाविनाभावित्वादनुमीयमानतादात्म्यसम्बन्धाऽवच्छिन्नप्रतियोगिताकाभाव इत्यर्थः । तदेवाह-*अन्यो
परीक्षा *आपत्तिरिति । पदाथकदेशत्वाभावादिति शेषः । *वृत्तस्य-पदान्तरार्थनिष्ठविशेष्यतानिरूपितप्रकारतापनार्थस्य । *एतन्मतवादिनाम् । अजत्स्वार्थावृत्तिरिति पक्षवादिनाम् । विशेष्यविधयाभानात्समानार्थे तूभयमतेऽपि विशेषणान्वयो भवति । पूर्वमतेऽप्युपपादितरीत्या स्वपदार्थत्यागाभावात् , अयमपि पक्षो "व्यपेक्षासामर्थ्यमेके" इत्यादिना भाष्ये दर्शितः । ___ *प्रसङ्गात् । वृत्तिनिरूपणप्रसङ्गात् । *वृत्ती इति । समासादिवृत्ती इत्यर्थः । *भेद इत्यादीति । एषां वाच्यत्ये मानन्तु "सामर्थ्यन्नाम भेदः, संसर्गो वा अपर आह-भेदसंसर्गो वा सामर्थ्यम्" इति भाष्यमेव । *अन्योन्याभावः । तादात्म्यसम्ब. न्धावच्छिन्नप्रतियोगिताकाभावः। यदि वृत्तिजन्यबोधे भेदसंसर्गयो नन्न स्यात्तदा सामर्थ्यमेव न स्यात्, सामर्थ्यस्य तदात्मकत्वादिति भावः । यत्किञ्चित्प्रतियोगिकभेदस्य केवलान्वयित्वात्तद्भानमव्यावर्त्तकमत आह-*तथाचेति । भेदस्य वाच्यत्वे युक्तिमप्याह-*अस्यावाच्यत्व इत्यादिना* । भेदस्य भाने प्रतियोगितावच्छेदकधर्मघटकतया संसर्गभानमावश्यकमिति तस्यैव वाच्यत्वमाह-*राजसम्बन्धवानिति । व्यपेक्षापक्षे वाच्यत्रैविध्यावृत्ति त्रैविध्यम् । वस्तुतस्तु-वक्ष्यमाणरीत्या व्यपेक्षापक्षस्य त्यागादेव शाब्दबोधो न, किन्तु राजपुरुषादिपदादाजपदसन्निधानवशाद्राजसम्बन्ध